________________ मानाविरोधिवाक्त्वा(क्यत्वा)त् निर्दोषोऽर्हनिगद्यते / यस्तु नैवं स नैवं स्यात् यथा रथ्यापुमानसौ // 47 // तस्येष्टस्य तथा प्रमाणविषयेनाबाध्यमानत्वतः, तद्वाचः प्रतिपाद्यमानसुविधेस्तेनाविरोधोदयः / मानेनापि न बाध्यते निजमतं मानाविरुद्धोदितः, ज्ञेयोऽर्हन्नयमेव विश्वविदितः श्रीवर्धमानप्रभुः / // 48 // चारित्रचारुमूर्तिय(य)श्चारित्ररससागरः / चारित्रसिद्धये मे स्ताद् गुरुश्चारित्रसागरः // 49 // सूरिः श्रीविजयप्रभस्तपगणाधीशो नतोर्वीश्वरः, कल्याणादिमसागरावगुरवः प्राज्ञा यश:सागराः / तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली प्रत्यक्षस्तबकस्तदा समभवत् 'तस्यां द्वितीयोऽधुना . . // 50 // - तृतीयः स्तबकः अथ द्वितीयं प्रतिपाद्यमानास्पष्टत्वभावाभिमतं परोक्षम् / आद्ये परोक्षे हि मतिश्रुते द्वे सैद्धान्तिकास्तावदिदं वदन्ति।। 51 // स्मरणं प्रत्यभिज्ञानं तर्कोऽथानुमितिः श्रुतम् / परोक्षं पञ्चधा प्राहुर्भूरयः पूर्वसूरयः / // 52 // संस्कारबोधसंभूतमनुभूतार्थवेदनम् / तत् तीर्थकृत्प्रतिच्छन्दः स्मरणं प्रथमोदितम् // 53 // मानार्पिता प्रतीतिर्या स एवानुभवः स्मृतः / . संकलनं विवक्षातो वस्तुप्रत्यवमर्शनम् // 54 // प्रत्यभिज्ञानमेवात्रानुभवस्मृतिहेतुकम् / सामान्यद्वयविषयं तथा संकलनात्मकम् / 5o