________________ पूर्वाकारपरित्यागोत्तराकारस्य निर्मितौ / परिणामश्च कार्यत्वं मृत्स्नायां कलशो यथा // 37 // उपादानादित्रितयं कारणं सद्भिरिष्यते / कार्यकारणताभावो नोक्तो ग्रन्थस्य गौरवात् // 38 // उत्पत्तौ परतः स्वतश्च परतो ज्ञप्तौ प्रमाणं भवेत्, प्रत्यक्षं च परोक्षमेतदुभयं मानं जिनेन्द्रागमे / अक्षाधीनतयास्मदादिविदितं स्पष्टं तथा लौकिकम्, द्वेधा तत् प्रियपारमार्थिकमिदं द्वेधा पुनः संमतम् // 39 // आद्यं सांव्यवहारिकं पुनरपि द्वेधेन्द्रियातीन्द्रियोत्पन्नत्वाद् द्वितयं तथापि [च] चतुर्भेदं यथाऽवग्रहः / ईहावायसुधारणादिभिरिदं जातं पुनस्तद्धितं, तत्राद्यं विकलं तथा च सकलं तद्वान् स्मृतस्तीर्थकृत् // 40 // अवध्यावरणोच्छेदादवधिज्ञानमिष्यते / गुणप्रत्ययमेवाद्यं तद्रूपिद्रव्यगोचरम्. - // 41 // चारित्रशुद्धिसंजाताद् विशिष्टावरणक्षयात् / यन्मनोद्रव्यपर्यायसाक्षात्कारि निवेदितम् // 42 // तथा हि संज्ञिजीवानां मानुषक्षेत्रवर्ति (ति)नाम् / मनःपर्यायविज्ञानं मनःपर्यायसंज्ञिकम् // 43 // सामग्रीतः समुद्भूतात् समस्तावरणक्षयात् / सकलं घातिसंघातविघातापेक्षमीहितम् . . // 44 // संमस्तवस्तुपर्यायसाक्षात्कारि त्रिकालतः / ' सर्वथा सर्वद्रव्याद्यैः केवलज्ञानमेव तत् // 45 // अर्हन्नेवास्ति सर्वज्ञो निर्दोषत्वादुदीरितः / . यस्तु नैवं स नैवं स्यात् यथा रथ्यापुमानसौ // 46 // . 240