________________ सर्वं जीवादिषट् (ड्) द्रव्यं गुणपर्यायसंयुतम् / अनेकान्तकलाकान्तं सिद्धं वस्तु त्रयात्मकम् // 17 // प्रध्वस्ते कलशे शुशोच -तनया मौलौ समुत्पादिते, पुत्रः प्रीतिमवाप कामपि नृपः शिश्राय मध्यस्थताम् / पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वयाधारश्चैक इति स्थितं त्रयमतं (त:) तत्त्वं तथा प्रत्ययात्॥ 18 // तथानेकान्ततो वस्तु भावाभावोभयात्मकम् / यथा सत्त्वं स्वरूपेण पररूपेण चान्यथा // 19 // पटाद्यभावरूपश्चेद् . घटोऽयं न भवेत्तदा / घटः पटदिरेव स्यात् तस्मादेष द्वयात्मकः // 20 // द्रव्यक्षेत्रकालभावापेक्षयापि घटो यथा / स्वभावेन परभावाद्भित्रस्तदुभयात्मकः . // 21 // अर्थक्रियाकारि तदेव वस्तु स्वद्रव्यशक्त्या हि भवेत् समर्थम् / पर्यायशक्त्या तदिहासमर्थम् सापेक्षमेतद् सहकारिराशेः // 22 // विरुद्धधर्माध्यासस्तु नानेकान्तं प्रतिक्षिपेत् / गुडनागरभैषज्यान दोषोऽयं द्वयात्मनि // 23 // चारित्रादिमसागराः समभवन् विद्यापगासागराः, येषां ध्यानवशा प्रसादमकरोत् पद्मावतीदेवता / उर्वीशा बहुशो यदीयवचनादाखेटकं तत्यजुः,, ध्याता[:] श्रीगुरवो भवन्तु मम ते सद्यः सहायप्रदाः // 24 // इत्थं श्रीसमयः सरानुसुकृतं स्याद्वादवादे सदा, सूरिः श्रीविजयप्रभस्तपगणाधीशो नतोर्वीश्वरः / कल्याणादिमसागराह्वगुरवः प्राज्ञा यश:सागराः तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली // 25 // 240