________________ // 7 // // 8 // // 10 // तिर्यग् (क्) सामान्यमेवैतद् यथा गोत्वं गवां व्रजे / तल्लक्षणं प्रतिव्यक्ति तुल्या परिणतिस्तथा / द्रवत्यदुद्रुवन्द्रोष्यत्येवं त्रैकालिकं च यत् / ताँस्ताँस्तथैव पर्यायान् तद्रव्यं जिनशासने अवच्छेदक एवायं व्यतिवृत्तिर्हि लक्षणम् / विशेषोऽपि द्विप्रकारो गुणपर्यायभेदतः सहोत्पन्ना गुणा द्रव्ये पर्यायाः क्रमभाविनः / पर्येत्युत्पादनाशौ च पर्यायः समुदाहृतः पर्यायाणां गुणानां च भेदो नो धर्म्यपेक्षया / . स्वरूपापेक्षया भेदः प्रोक्तोऽयं पूर्वपण्डितैः स्यादव्ययमनेकान्तद्योतकं सर्वथैव यत् / तदीयवादः स्याद्वादः सदैकान्तनिराश (स) कृत् सर्वं तथान्वयि द्रव्यं नित्यमन्वयदर्शनात् / अनित्यमेतत् पर्यायैः पर्यायानुभवादिदम् . अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् / उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले एकविंशतिभावाः स्युर्जीवपुद्गलयोर्मताः / धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः उत्पादध्रौव्यनाशास्ते स्युभिन्नाभिन्नलक्षणात् / परस्परं हि सापेक्षा[:] सैवेयं त्रिपदी मता रहितः स्थितिनाशाभ्यां न चोत्पादस्तु केवलः / . उत्पादध्रौव्यरहितो न नाशः केवलो मतः रहितोत्पादनाशाभ्यां नैकका केवला स्थितिः / अन्यथानुपपत्तेश्च दृष्टान्ताः कूर्मरोमवत् / 246 // 11 // // 12 // // 13 // // 14 // // 15 // // 16 //