________________ नित्यसामान्यसदभिलाप्येतरचतुष्टयी / जात्यन्तरत्वाद् स्याद्वारे दोषपोषाय नो भवेत् // 245 // रसादयो धातव ईशवाञ्छा-फला नयाः स्यात्पदलाञ्छनास्ते / प्रमाणवत्ते फलदायका:स्युश्चारित्रसत्सागरसंप्रदिष्टाः // 246 // सूरिः श्रीविजयप्रभस्तपगणाधीशो नतेश:श्रिये, कल्याणादिमसागराह्वगुरवो विद्वद्यशःसागराः / तकृच्छष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली, तत्रायं स्तबको नयाद्भुतरसप्रेष्ठश्चतुर्थोभवत् // 247 // स्याद्वादसुखबोधाय प्रक्रियेयं प्रतिष्ठिता / विचाराम्बुधिबोधाय देवसूरिवचोनुगा // 248 // पू.मु.श्रीयशस्वत्सागरविरचिता // स्याद्वादमुक्तावली // ॥जैनविशेषतर्कः // - प्रथमः स्तबकः प्रणम्य शर्खेश्वरपार्श्वनाथं प्रकाशितानन्तपदार्थसार्थम् / शिशुप्रबोधाय तमस्तमोऽर्कः प्रकाश्यते जैनविशेषतर्कः // 1 // जीवाजीवौ नभ:कालौ धर्माधर्मी विशेषतः / / समस्वभावाः स्याद्वादे पदार्थाः षट् प्रकीत्रि (ति)ताः // 2 // तत्रास्ति सामान्यविशेषकाद्यनेकात्मकश्चैव पदार्थसार्थः / एकोऽनुवृत्तिव्यतिवृत्तितोऽन्यश्चार्थक्रियाया घटनात् त्रिपद्या॥ 3 // सामान्यं द्विविधं तिर्यगूलतादिविभेदतः / . आद्यं साधारणं व्यक्तौ द्वितीयं द्रव्यमेव च // 4 // 245