________________ संप्रत्यस्ति सुखादिरेवहितदाभासोप्यसौ सौगतः, तत्सर्वं क्षणिकं तथागतगुणं द्रव्यापलापीश्रुतः // 235 // शब्दाख्यश्च नयोध्वनेरपि भवेत्कालादितोर्थस्यभित् स्वर्णाद्रिस्त्वभवद्भविष्यतिभवत्पर्यायतीर्थाभिदा / भिन्नार्थं लभते निरुक्तिभिदयापर्यायशब्देषु सः इन्द्रस्त्विन्दनतस्तथैवशकनाच्छक्रश्च तद्दर्शनम् // 236 // यथेन्द्रशक इत्याद्याः शब्दाभिन्नाभिधेयकाः / भिन्नशब्दत्वतः कुम्भस्तदाभासस्तुरंगवत् .. // 237 // पर्यायशब्देषु निरुक्तिभेदादर्थं च भिन्न प्रवदन्ति विज्ञाः / . गुणक्रियाशब्दविशेषतोऽपि तथा तदाभास इतीह वृद्धाः // 238 // एवंभूतनयः क्रियाश्रितविधेशब्दस्य वाच्यक्रियाविष्टार्थं प्रकटीकरोतिकिल गौरवश्च तद्दर्शनम् / चेष्टाशून्यमिदं घटख्यमिति तत्तस्माद् घटादेःक्रिया शून्यत्वात्पटवत्त्वनेन वचसाभासस्त्वदीयोभवेत् // 239 // चत्वार एते प्रथमेर्थरूपनिरूपणस्य प्रवणत्त्वतो ये / भवन्ति चार्थोपपदे नयास्ते शेषास्त्रयः शब्दनया वदन्ति // 240 // को वा स्याद् बहुविषयः को वाऽल्पविषयो नयः / विवेचयन्ति विधिवत्रयज्ञा नयशासने // 241 // पूर्वः पूर्वो नयो यस्तु स स्यात्प्रचुरगोचरः / परः परः परिमितविषयः प्रतिपाद्यते // 242 // उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः / नच तासु भवान् प्रदृश्यते प्रविरक्तासु सरिस्विव नोदधिः।। 243 // नयास्तव स्यात्पदला ञ्छना इमे रसोपविद्धा इव लोहधातवः / भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः।। 244 // 244