________________ तन्मात्रस्य समुद्रत्वे शेषांशस्याऽसमुद्रता / समुद्रबहुता वा स्यात् तत्त्वेकास्तु समुद्रवित् // 224 // तयोश्च चैतन्यकमात्मनीति: पर्यायवद् वस्तु च धर्मिणोः स्यात् / जीवः सुखीयो विषयाश्रितः क्षणं तृतीयभेदः खलु धर्मधर्मिणो:२२५ उभे च सत्वचैतन्ये पृथक्भूते तथात्मनि / नैगमाभास एवात्र पार्थक्याद्धर्मधर्मिणोः // 226 // वैशेषिकमतं चात्र नैयायिकस्य दर्शनम् / एतद्वयं तथा नैगमाभासे च प्ररूपितम् // 227 // सामान्यमात्रग्रहणप्रवीणः परोपरः स्यादविशेषतोपि / तथापरामर्श इतीह विश्वमेकं प्रदिष्टः परसंग्रहोयम् // 228 // सत्तैव तत्त्वं न पुनर्विशेषा अद्वैतवादिप्रकाराश्च सांख्याः / एते तदाभासतया हि विज्ञा एकान्तवादात्परसंग्रहस्य // 229 // द्रव्यत्वमाश्रित्य तदन्तरालव्यक्त्याश्रितं तेषु तदीयभेदाः। तथा पर:संग्रह एषु नागनिमीलिकान्द्रागवलम्ब्यमानः // 230 // द्रव्यत्वमेकं सकलं हि जानन् तेषां विशेषान्खलु निढुवानः / तथातदाभास इतीरितः स्यात् सपर्ययत्वस्य तथाऽविशेषात्॥ 231 / / अर्थांस्तथासंग्रहसंगृहीतात्तथापरामर्शविशेष एषः / तानेवयोयं प्रकटीकरोति नयो नयज्ञैर्व्यवहारनामा. // 232 // द्रव्यं हि यत्सत् किल पर्ययो वा, भासः पुनस्तस्य सुधीभिरुक्तः / निदर्शनं नास्तिकदर्शनं तै, मान्यं जगद्भूतचतुष्टयैक्यं // 233 // पर्यायार्थिक एवाय-मृजुसूत्रस्तथादिमः / शब्दःसमभिरूढश्चे, त्येवंभूतश्चतुर्थकः // 234 // अतीतानागतवर्तमानसमये कौटिल्यवैकल्पतो, द्रव्यं प्राञ्जलमर्पयत्यविरतं पर्यायमानं नवा / 243