________________ जावइया वयणपहा तावइया चेव हुंति नयवाया / जावइया नयवाया तावइया चेव परसमया // 206 // नयः प्रसिद्धः प्रतिपत्तुरेव स्वाथैकदेशव्यवसायकत्वात् / सव्यासतोऽनेकविकल्पकल्प्यः समासतोयं द्विविधः प्रदिष्टः॥ 207 // द्रव्यार्थिकनयस्त्वेकोऽन्यः पर्यायार्थिकस्तथा / निश्चयो व्यवहारस्तु शुद्धाशुद्धभिदा द्विधा // 208 // नैगमः संग्रहोन्यश्च व्यवहारस्तृतीयकः / द्रव्यार्थिकनयस्यैते भेदाः प्रोक्ता अमी त्रयः // 209 // द्वितीयस्तु चतुर्भेदः ऋजुसूत्रश्च शब्दभाक् / समभिरूढ एव स्यादेवंभूतश्चतुर्थकः // 210 // अमी सप्त नयाः प्रोक्ताः श्रीमत्स्याद्वादवादिभिः / प्रमाणनयसंसिद्धं श्रीमत् स्याद्वादशासनम् // 211 // अहो चित्रं चित्रं तव चरितमेतन्मुनिपते, स्वकीयानामेषां विविध विषयव्याप्तिवशिनाम् / .. विपक्षाक्षेपाणां कथयसि नयानां सुनयतां, विपक्षक्षेतॄणां पुनरिह विभो दुष्टनयताम् // 212 // निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां, . वस्तूनां नियतांशकल्पनपराः सप्तश्रुता:संगिनः / औदासीन्यपरायणास्तदपरे चांशा भवेयुज़या, . . श्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्णयाः // 213 // स्वाभिप्रेतादथांशाच्च सद्यस्तद्व्यतिरेकतः / इतरांशापलापी यो नयाभासः स उच्यते // 214 // अन्यदेव हि सामान्यमभिन्नज्ञानकारणं / विशेषोप्यन्य एवेति मन्यते नैगमो नयः // 215 // 241