________________ // 197 // // 198 // // 199 // // 200 / / यस्य संदिह्यते सैव सोऽनैकान्तिक उच्यते / द्वेधा निर्णीत संदिग्ध तद्युग्विपक्षवृत्तिकः / नित्यः शब्दः प्रमेयत्वादाद्यभेदो भवेदयम् / / नेयायिकैस्तथोपाधिरुक्तोऽन्यः प्रतिपाद्यते दृष्टान्ताभास एवायं, नवधापि द्विधा पुनः / अन्वयव्यतिरेकाभ्यां, नवभेदा भवन्ति ते अपौरुषेयः शब्दोत्राऽमूर्त्तत्वाद् दुःखवत्स्मृतः / निदर्शनानि दृष्टान्ता-भासे ज्ञेयानि शास्त्रतः शब्दोयं परिणामवानुपनयाभासस्तु कार्यत्वतस्तस्मिन्नेव फले तथा निगमनाभासस्तु शब्दस्तथा / तत्रानाप्तभवाहिचित्प्रवचनाभासश्च संख्यादितः, प्रत्यक्ष प्रवदन्ति मानमपरे जातों द्वितीयस्तथा विषयाभास एवात्र सामान्योभयसंज्ञितम् / फलाभासस्तथाभिन्न भिन्नं मानादुदीरितम् . ददाति सेवया सम्यक्सागरः सागरोद्भवम् / मया रत्नत्रयं प्राप्तं गुरोश्चारित्रसागरात् सूरिः श्रीविजयप्रभस्तपगणाधीशो नतेशः श्रिये कल्याणादिमसागराह्वगुरवो विद्वद्यशःसागराः / तच्छिष्यस्य यशस्वतःकृतिरियं स्याद्वादमुक्तावली, विज्ञातस्तबकःप्रमेयविषयस्तस्यां तृतीयोप्यभूत् // 201 // // 202 // // 203 // // 204 // चतुर्थः स्तबकः श्रुतप्रमाणाद्विषयीकृतस्य चार्थस्य योऽशः प्रकटोऽपि येन / अंशस्य तस्मादितरस्य चौदासीन्यादभिप्रायविशेष एषः // 205 // 240