________________ फलमस्य द्विधा तच्च प्रमाणेन प्रसाध्यते / आनंतर्येण वा पारं-पर्येणेति प्रशस्यते / // 175 // प्रमाणानां यदज्ञान- निवृत्तिः फलमुच्यते / औदासीन्यं फलं पारंपर्यात्सकलिवां सदा // 176 // विपरीतास्तदाभासाः प्रमाणादिस्वरूपतः / स्वरूपसंख्या विषग्नफलेभ्यः प्रतिपादिताः // 177 // स्वरूपाभास इत्येवं प्रमाणाभास उच्यते / अनुपपत्तेः स्वपरव्यवसायस्य तत्त्वतः // 178 // अज्ञानात्मकमित्येवं संन्निकर्षादिदर्शनम् / अस्य संविदितं ज्ञेयं तदनात्मप्रबोधकम् // 179 // परावभासकत्वं नैषां स्वमात्रावभासकम् / विपर्ययाः समारोपा दर्शनं निर्विकल्पकम् - // 180 // स्वपरव्यवसायस्तु न चैतेभ्यः प्रसिध्यति / आभासकास्तु त इमे प्रमाणस्य प्रकीर्तिताः // 181 // आद्याभास इतीहभेदसहितो गन्धर्वपूर्वारिदे, दु:खे शं च तथाह्यवग्रह मुखाभासानिवेद्याः पुनः / आभासोप्यवधेः शिवस्य विदितो द्वीपाश्च सप्ताब्धयः, आभासः सकलस्य नैव विदितः प्रत्यक्षबोधेप्यमी // 182 // तदित्यननुभूतेपि स्मरणाभासे उच्यते / तुल्येर्थे प्रत्यभिज्ञाना भासमाहुः स एव च / // 183 // तर्काभास इतीह मैत्रतनयः स श्याम एवोदितः, . पक्षाभाससमुद्गतं ह्यनुमितेराभासमेवं जगुः / तस्मात्तत्रितयं च तस्य विदितं, पूर्वोक्तमेतत्त्रयं, पक्षस्य व्यतिरेकतः समुदितं तस्मात्ततो लक्षणम् // 184 // 238