________________ साध्याभावे साधनस्याप्यभावो वैधोक्तौ वै स दृष्टान्त एषः। . शौचिः केशाभावतोस्याप्यभावो, धूमस्यास्मिन् ज्ञेय एव हृदे सः१३१ प्रयोगतोपि द्विविधः सहेतुस्तथोपपत्तिस्तु यदन्वयः स्यात् / ततोऽतिरिक्तस्तु तथान्यथानुपपत्तिसंज्ञो व्यतिरेक एव // 132 // द्वेधोपलब्ध्यनुपलब्धिभिदा हि हेतुः, साध्यन्तयोविधिनिषेधविशेषसिद्धिः एते द्विधा तदविरुद्ध विरुद्धभेदात्, साध्येन सार्धमिह तच्च न वाऽपि हेतोः कार्यात्पुनः कारणकार्यताभ्याम्, पूर्वोत्तराभ्यां च चरात्सहाय्यात् / स्मृतोपलब्धिस्तु तथैव वाऽन्या स्वभावतोऽपि प्रथितात्प्रयोगात्१३४ सिद्धौ विधेस्तदविरुद्धयुतोपलब्धि, या॑प्यादितश्च नियुताः किल षट्प्रकाराः अन्या स्वभावनियुताप्रतिषेधसिद्धौ, स्यात्सप्तधा किल विरुद्धयुतोपलब्धिः सप्तप्रकाराः प्रतिषेधसिद्धौ यथाविरुद्धानुपलब्धिरेषा / विधिप्रतीतौ किल पञ्चधेति स्मृता विरुद्धाऽनुपलब्धिरेवम्॥ 136 // एताश्च सोदाहरणा ज्ञेया:सद्भिस्तु विस्तरात् / , ग्रन्थस्य भूयस्त्वभयान्नाऽत्रालेखि प्रमादतः // 137 // सद्भावरूपः किल वस्तुनोपि, विधिः सदंशो गदितः सुधीभिः / अभावरूपः खलु वस्तुनस्तु, तस्यासदंशः प्रतिषेध एवम्।। 138 // चतुर्धायं प्रागभावः प्रध्वंसाभाव एव वा / तथेतरेतराभावोऽत्यन्ताभावश्चतुर्थकः // 139 // यन्निवृत्तौ हि कार्यस्य समुत्पत्तिः प्रजायते / प्रागभावः स मृत्पिण्डो यथाकुम्भस्य कथ्यते // 140 // यदुत्पत्तौ हि कार्यस्य व्ययोऽवश्यं द्वितीयकः / . कलशस्य यथाजातं यत्कपालकदम्बकम् // 141 // स्वरूपान्तरतः स्वीयरूपव्यावृत्तिरिष्यते / स्वस्वरूपव्यवच्छेदः, स चाऽन्यापोहनामतः / // 142 // 234