________________ स एष दृष्टो जिनदत्त एष स गोसदृक्षो गवयस्तथाऽन्यः / गोसदृक्षो महिषस्त्वयन्तनिदर्शनं संकलनात्मके स्यात् // 97 // मानोपलम्भानुपलम्भहेतुर्व्याप्तिर्हि यस्मिन् विषयोपदेशः / अस्मिन्सतीदं भवति स्वरूपं तर्कोस्ति धूमो दहनस्तु यत्र // 98 // अन्वयव्यतिरेकाभ्यां निदर्शनं निदर्शनम् / अन्वयः सति सद्भावे व्यतिरेकस्ततोन्यथा // 99 // तर्कः प्रमाणमात्रेणोपलम्भानुपलम्भतः / संभवः कारणं यत्र कालत्रितयवर्तिनोः // 100 // साध्यसाधनयोर्व्याप्त्याद्यालम्बनमिदं हि यत् / अन्वयव्यतिरेकाभ्यां संवेदनमुदीरितम् // 101 // साध्यसाधनयोनित्यं कालत्रितयवर्तिनोः / संबंधो व्याप्तिरित्येवाविनाभावितयोच्यते . // 102 // अप्रत्यक्षपदार्थस्य कथं प्रामाण्यनिर्णयः / अर्थक्रियाभिसंवादादनुमानेन निर्णयः // 103 // अथानुमानं द्विविधं वदन्ति स्वार्थं परार्थं. ह्युपचारतोपि / स्वस्मै हितं स्वार्थमिदं सुधीभिरन्यत्परस्मै प्रतिपाद्यमानम्॥ 104 // स्वार्थ स्वहेतुग्रहणव्याप्तिस्मरणपूर्वकम् / यदेव साध्यविज्ञानमनुमानं तदेव हि। // 105 // अप्रतीतमनिराकृतमेतत् साध्यमेव यदभीप्सितमत्र / व्याप्तिपक्षसमयोदितसाध्यं तद्विकल्पवशतो पि च मानात्॥ 106 // साध्यं यदविनाभावसाधनं यत्र लक्षणम् / अन्यथानुपपत्त्यैकलक्षणं यत्र साधनम् // 107 // यावान्कश्चिदयं सधूमनिकरः सत्येव वह्नौ भवेत्, यत्सत्त्वे प्रथमोन्वयो निगदितो यत्सत्त्वमेवोभयम् / . . . 231