________________ त्वद्वाक्सुधापानपराङ्मुखानां सदैवमेकान्तमतानुगानाम् / निजाप्तहेवाकविडम्बितानां स्वष्टं च दृष्टेन हि बाध्यतेऽत्र // 87 // चारित्रांशः कलौ भूरिभाग्यभाजां सुदुर्लभः / अस्मद् भाग्योदयादाप्तो गुरुश्चारित्रसागरः // 88 // सूरिः श्रीविजयप्रभस्तपगणाधीशो नतेश:श्रिये , कल्याणादिमसागराह्वगुरवो ,विद्वद्यशःसागराः / तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली प्रत्यक्षस्तबकः प्रमाणरसिकंस्तवाद्य एवाजनि // 89 // द्वितीयः स्तबकः अथ द्वितीयं प्रतिपाद्यमानाऽस्पष्टभावाभिमतं परोक्षम् / आद्ये परोक्षे हि मति श्रुते द्वे सैद्धान्तिकास्तावदिदं वदन्ति॥ 90 // स्मरणं 1 प्रत्यभिज्ञानं 2 तर्कोऽ 3 थानुमिति: 4 श्रुतम् 5 / परोक्षं पञ्चधा प्राहुर्भूरयः पूर्व सूरयः // 91 // मानार्पिता या प्रसभं प्रतीता प्रतीतिरेवानुभवः प्रतीतः / क्रमोत्तरं कारणमाहुरेषाम् क्रमोप्यमीषामयमेव सिद्धः // 92 // संस्कारबोधोदितकारणेन तथानुभूतार्थकगोचरं यत् / तच्छब्दमात्रोल्लिखनस्वरूपं विज्ञानमेतत्स्मरणं परोक्षम् . // 93 // स्मृतं तथैवोपमितं वितर्कितं, पुनस्तथैवानुमितं श्रुतश्रुतम् / प्रत्यक्षतो वापि धृतं पुरा यत् सर्वज्ञबिम्बं स्मरणे निदर्शनम्॥ 94 // हेतू तु यस्यानुभवस्मृती ते सामान्ययुग्मं विषयोपदेशः / . तथा पुनः संकलनस्वरूपं तत् प्रत्यभिज्ञानमतो वदन्ति // 95 // एकं हि पूर्वोत्तरकालवर्ति दशानुषक्तं सदृशत्वतोऽन्यत् / ततोऽन्यथाऽन्यत् किल योगक्लृप्तमन्तः प्रविष्ट ह्युपमानमत्र।। 96 // 230