________________ // 78 // // 80 // कालान्तरेण तद् विस्मरणाय योग्यं, तज्ज्ञानमेव गदिता किल धारणैषा / स्याच्चागृहीतविषयग्रहणादमीषां, कोप्यत्र पूर्वमुनिभिः कथितः क्रमोऽयम् तत्राद्यं विकलं निजावरणकच्छेदोद्भवोत्पत्तिमत्, किञ्चित्स्यादसमस्तवस्तु विषयावच्छेदकत्वात् पुनः / प्रत्येवं प्रथमं हि यद्भवगुणौ सत्प्रत्ययौ यस्य तौ रूपिद्रव्यसुगोचरं तदवधिज्ञानं ह्यदः षड्विधम् // 79 // चारित्रशुद्धिसंजातविशिष्टावरणक्षयात् / यन्मनोद्रव्यपर्यायालम्बनं विनिवेदितम् तद् द्वेधा संज्ञिजीवानां, मानुषक्षेत्रवर्तिनाम् / मनःपर्यायविज्ञानं, मनः पर्यवसंज्ञिकम् // 81 // स्वसामग्रीविशेषोद्यत्समस्तावरणक्षयात् / सकलं घातिसंघातविघातापेक्षमीरितम् // 82 // समस्तवस्तु विस्तार, साक्षात्कारि त्रिकालतः / सर्वथा सर्वदा नित्यं, केवलज्ञानमेवतत् // 83 // सर्वज्ञोऽसौ वीतरागः प्रसिद्धो निर्दोषत्वात्सद्भिरेवोदितश्च / निर्दोषोऽयं सत्प्रमाणाऽविरोधिवाक्त्वादत्र स्पष्टदृष्टान्त एषः // 84 // स्युः सूक्ष्मान्तरितातिदूरगुणिनस्त्वण्वादयः कस्यचित् प्रत्यक्षाः सततं यथाहुतवहः साध्योनुमेयत्वतः / सर्वज्ञः किल सोस्त्यनिन्द्रियकतो ज्ञानाच्छुतः सुश्रुतात् यस्मादिन्द्रियजं न सर्वविषयं ज्ञानं भवेत्कर्हिचित् // 85 // त्वमेवं निर्दोष इतीह शास्त्राऽविरोधिवाक्देवयतो विरोधः / यथा प्रसिद्धेन न बाध्यतेऽत्र, तस्मादनेकान्तमताद्यदिष्टम् // 86 // 228