________________ // 70 // ज्ञानावरणनाशाच्च क्षयोपशमतोपि वा। शब्दाद्यसंभविज्ञानं स्पष्टं स्वानुभवोदयात् . . ज्ञानं सांव्यवहारिकं निगदितं प्रत्यक्षमेवेन्द्रियैर्जन्यन्तत्किल पारमार्थिकमिदं तस्माच्च तद्धेतुकम्। . अन्यान्यव्यतिरिक्तलक्षणवतोः प्रत्यक्षता किं तयोराद्ये स्यादुपचारतः कविवर्ज्ञाने परोक्षेऽग्रिमे // 71 // स्पष्टं विशेषविशदप्रतिभासमानं प्रत्यक्षमेकमुदितं व्यवसायरूपम् / तद्देशतो हि विशदप्रतिभासनत्वात् ज्ञानं विशिष्टमिह सांव्यवहारिकं स्यात् ज्ञानं भवेदिन्द्रियजन्यमेकम् पुनस्तथानिन्द्रियजन्यमन्यत् / स्पर्शादिकानां पुनरिन्द्रियत्वमनिन्द्रियत्वं मनसो वदन्ति // 73 // मनः पुनस्तद्वयसाधनोत्कमप्राप्यकारिस्वमते च चक्षुः / / ज्ञानं तथैवाहुरपीतराणि यत्प्राप्यकारीणि तदिन्द्रियाणि // 74 // योग्येन्द्रियार्थसमयोद्भवमुख्यसत्ता, तन्मात्रगोचरसमुद्भवसविशिष्टम् / संगृह्यतेऽत्र विशदं खलु येन वस्तु, सोऽवग्रहः पुनरयं पुरुषः समस्ति // 75 // तद्गोचरीकृतपदार्थविशेषसंवि-, दीहास्ति संशयनिराकरणोद्भवाऽत्र / यद्येष एष पुरुषः किल दाक्षिणात्यस्तत्प्रत्ययात्मकतया ग्रहणाभिमुख्यम् // 76 // जातस्तथेहितविशेषविनिश्चितात्मा, भाषाद्यशेषविषयाचरणादपायः / निश्चित्य वैष पुरुषः खलु दाक्षिणात्यो, याथात्म्यबोधविधिना विधिवत्प्रयुक्तः . // 77 / / ... पिशषसाव-, 228