________________ // 61 // // 62 // // 63 // // 64 // // 65 // समारोपविरुद्धत्वाद् यन्नैवं न तदीदृशम् / तस्मिंस्तदध्यवसायो व्यवसाय: शितेशितम् . अतत्प्रकारे सति तत्प्रकारतान्तः समारोप इति प्रसिद्धः / विपर्ययः संशय एव तत्रोपचारतोऽनध्यवसायसंज्ञः विपरीतैकैकोटेस्तु निष्टंकनं विपर्ययः / शुक्तिकायां हि रजतं समारोपोयमादिमः अनिश्चितानेककोटि-स्पर्शिज्ञानं च संशयः / स्थाणुर्वापुरुषोवेति समारोपो द्वितीयकः किमित्यालोचनप्रायं ज्ञेयोऽनध्यवसायकः / गच्छतश्च तृणस्पर्शविषयं ज्ञानमुच्यते पूर्वाकारपरिक्षयोत्तरधृताकारः स्मृतं कारणं, पूर्वाकारपरिक्षयोत्तरपरीणामस्तु कार्यं भवेत् / निर्दिष्टं कारणं च साधकतमं तत्कारणं स्यानिधोपादानं सहकारिकारणमतोऽपेक्षाकृतं कारणम् एकं त्वसाधारणकारणं स्यादन्यच्च साधारणमाहुरत्र / एकं छुपादानमतो मतं च तथान्यदन्येन कृतं कृतं तत् उत्पत्तौ परतः स्वतश्च परंतो ज्ञप्तौ प्रमाणं भवेत् प्रत्यक्षं च परोक्षमेतदुभयं. मानं जिनेन्द्रागमे / अक्षाधीनतयाऽस्मदादिविदितं स्पष्टं द्विधा लौकिकं मन्यत्तत्किल पारमार्थिकमतो नित्यं सतां संमतम् आद्यं सांव्यवहारिकं पुनरपि द्वेधेन्द्रियाऽनिन्द्रियोत्पन्नत्वाद्विदितं तथापि हि चतुर्भेदं तथाऽवग्रहः / ईहापायसुधारणाभिरुदितं ज्ञानं हि मत्यात्मकं, - तबाद्यं विकलं तथा च सकलं तद्वान् स्मृतस्तीर्थकृत् // 66 // // 67 / / // 68 // // 69 // 220