________________ जेण विणा लोगस्स वि ववहारो सव्वहा न निव्वडइ / तस्स भुवणेक्कगुरुणो नमो अणेगंतवायस्स . // 166 // भदं मिच्छदंसणसमूहमइअस्स अमयसायस्स / जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स . // 167 // // 1 // // 2 // // 3 // ॥न्यायावतारः // प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् / प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः। प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् / . तद्व्यामोहनिवृत्तिः स्याद् व्यामूढमनसामिह . अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् / प्रत्यक्षमितरद् ज्ञेयं परोक्षं ग्रहणेक्षया साध्याविनाभुनो(वो) लिङ्गात् साध्यनिश्चायकं स्मृतम् / अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवत् . न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् / ' भ्रान्तं प्रमाणमित्येतद् विरुद्धवचनं यतः सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् / प्रमाणं स्वान्यनिश्चायि द्वयसिद्धौ प्रसिद्ध्यति दृष्टेष्टाव्याहताद्वाक्यात् परमार्थाभिधायिनः / तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् // 4 // // 7 // // 8 // 15