________________ व्यक्ति विशेष:स्वत एव सद्यो वच्छेदकत्वाद् व्यतिवृत्तिरूपः / सोऽपि द्विधा स्याद् गुणपर्यवाभ्यां स्वरूपभेदप्रथितात्मताभ्याम्१६ // द्रव्ये गुणाः सन्ति सदा सहोत्थास्तत्पर्यवास्ते क्रमभाविनःस्युः / / स्याद् भेदभिन्ना न च धर्म्यपेक्षाकृतोप्यमीषां कथितः प्रभेदः॥१७॥ सर्वं तथान्वयिद्रव्यं नित्यमन्वयदर्शनात् / अनित्यमेतत्पर्यायैरुत्पादव्ययसंगतैः // 18 // प्रध्वस्ते कलशे शुशोचतनया मौलौ समुत्पादिते पुत्रः प्रीतिमवाप कामपि नृपः शिश्राय मध्यस्थताम् / पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वया-, धारश्चैक इति स्थितं त्रयमतं तथ्यं तथा प्रत्ययात् // 19 // घटमौलिसुवर्णार्थी-नाशोत्पादस्थितिष्वयम् / शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकं // 20 // पयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः। .. अगौरसवतो नेमे तस्माद्वस्तुत्रयात्मकम् // 21 // उत्पादो न विना व्ययेन न विना ताभ्यां प्रसाध्या स्थितिः, सन्त्येते हि परस्परं खलु निजैः पर्यायभावाश्रितैः / भिन्नास्त्वेकपदार्थगा अघि मिथो भिन्नस्वभावादितः, सैवेयं त्रिपदी जिनेशगदिता,तस्यास्तु वश्यं जगत् // 22 // द्रव्यं पर्यायसंयुक्तं पर्याया द्रव्यसंगताः / / गुणो द्रव्यगतो धर्मः स्वरूपात्रितयं विदुः // 23 // द्रव्यं पर्यायवियुतं, पर्यार्या द्रव्यवर्जिताः / क्व कदा केन किंरूपा, दृष्टा मानेन केन वा // 24 // स्वद्रव्यादिचतुष्टयेन परतस्तेनैव तद्धेतुना भावाभावयुगात्मकस्तु कलशो जातस्तथा प्रत्ययात् / 223