________________ // 7 // // 8 // // 9 // // 10 // // 11 // // 12 // भूमिवेश्मगतः कोऽपि शङ्ख वादयते यथा। तच्छब्दः श्रूयते सर्वैः परं छिद्रं न दृश्यते संजाताः कृमयश्चौर-शबे तत्रैव भूरिशः / प्रविश्यमाणा नो दृष्टा स्ततो मे संशयो महान् यथाऽयोगोलको वह्नि-रूपः सर्वैरपीक्ष्यते / पुनः शीतेऽग्निजीवानां छिद्रं न कृमयस्तथा दूरं याति शरः क्षिप्तो निकटं चापरस्य च / कथं तद् घटते स्वामि-नस्त्यैक्यं जीवदेहयोः यथा विहङ्गिकावंशो नव्यो भारं वहेद् गुरुम् / तथा न प्रतनीभूत-स्तद्वच्छरीरजो गुणः तुलारूढः पुनश्चौरो जीवनथ मृतोऽपि सः। लघुगुर्वोर्विशेषो नो दृष्टस्तेनात्र संशयः वायुना पूरितश्चर्म-हती रिक्तीकृतः पुनः। . तुलारूढः समानोऽपि तद्वज्जीवः शरीरगः जीवदर्शनबुद्ध्या च खण्डीकृत्य विलोकितः / एकश्चौरः परं कुत्र जीवदेशो न लक्षितः यथारणिगतो वह्नि-आयते न तु लभ्यते / दृश्यते तदुपायेन तद्वज्जीव: स्वदेहगः यथा घटदयः सर्वे पदार्था दृष्टिगोचराः / तथा प्रत्यक्षलक्ष्यो न जीवस्तेनात्र संशयः यथा वायुप्रभावेण प्रकम्पन्ति लतादयः / प्रत्यक्षेण परं ग्राह्यो नैव तद्वत्प्रदेशिराट् कृमिकुन्थुगजादीनां तुल्या जीवा भवन्मते / तदस्मन्मानसे जीव-संशयः खलु खेलति 210 // 13 // // 14 // // 15 // // 16 // // 17 // // 18 //