________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // विशेषात्मकमेवार्थं व्यवहारश्च मन्यते / विशेषभिन्नं सामान्यमसत्खरविषाणवत् वनस्पतिं गृहाणेति प्रोक्ते गृह्णाति कोऽपि किम् / विना विशेषान्नाम्रादींस्तन्निरर्थकमेव तत् व्रणपिण्डीपादलेपादिके लोकप्रयोजने / उपयोगो विशेषैः स्यात्सामान्ये न हि कर्हिचित् ऋजुसूत्रनयो वस्तु नातीतं नाप्यनागतम् / मन्यते केवलं किन्तु वर्तमानं तथा निजम् अतीतेनानागतेन परकीयेन वस्तुना / न कार्यसिद्धिरित्येतदसद्गगनपद्मवत् नामादिषु चतुर्वेषु भावमेव च मन्यते / न नामस्थापनाद्रव्याण्येवमग्रेतना अपि . अर्थ शब्दनयोऽनेकैः पर्यायैरेकमेव च / मन्यते कुम्भकलशघटयोकार्थवाचकाः ब्रूते समभिरूढोऽर्थं भिन्नं पर्यायभेदतः / भिन्नार्थः कुम्भकलशघय घटपटदिवत् / यदि पर्यायभेदेऽपि न भेदो वस्तुनो भवेत् / भिन्नपर्याययोर्न स्यात् स कुम्भपटयोरपि एकपर्यायाभिधेयमपि वस्तु च मन्यते / . . कार्यम् स्वकीयं कुर्वाणमेवंभूतनयो ध्रुवम् यदि कार्यमकुर्वाणोऽपीष्यते तत्तया स चेत् / तदा पटेऽपि न घटव्यपदेशः किमिष्यते यथोत्तरं विशुद्धाः स्युर्नयाः सप्ताप्यमी तथा / एकैकः स्याच्छतं भेदास्ततः सप्तशतान्यमी // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // ૨૧છે.