________________ एवं हि यश्चाऽऽत्मभवात्मबोध-स्तस्मान्नृणां जायत एव मुक्तिः / अस्या न हेतुस्त्वपरोऽस्ति विष्णु-मुख्यस्तदात्माऽवगमस्पृहैष्या 499 ये तु स्वभावान्निगदन्ति मुक्ति, तत्राऽप्यसावेव निवेदितोऽर्थः / स्वस्याऽऽत्मनो भाव इहाप्तिरुक्ता, तदात्मलाभान्ननु सिद्धिलक्ष्मी: 500 एवं समस्तैरपि मुक्तिमिच्छभि-मुक्तिः समेष्या नियतात्मबोधात् / अस्या निमित्तं न हि किश्चिदस्मा-दन्यन्यगादि प्रगुणैर्यदुच्यते 501 यावत्कषायान्विषयान्निषेवते, संसार एवैष निगद्य आत्मा। एतद्विमुक्तोऽजनि यावदात्मा-वबोधयुग्मोक्ष इतीहितोऽयम्।। 502 // ज्ञानं तथा दर्शनकं चरित्र-मात्मैष वाच्यो न हि किञ्चिदस्मात् / . भिन्नं यदेतन्मय एव देह-मेष श्रितस्तिष्ठति कर्मनिष्ठः // 503 // आत्मानमात्मैष यदाऽभिवेत्ति, मोहक्षयादात्मनि चात्मशक्त्या / तदेव तस्योदितमात्मविद्भि-निं च दृष्टिश्चरणं तथाप्तैः // 504 // आत्मावबोधेन निवार्यमात्मा-ऽज्ञानोद्भवं दुःखमनन्तकालिकम् / अनेककष्टाचरणैरपीदं, विनाऽऽत्मबोधादनिवार्यमस्ति यत्।। 505 // चिद्रूप आत्मायमधिष्ठितस्तनुं, कर्माऽनुभावादसकौ शरीरी। ध्यानाग्निनिर्दग्धसमस्तकर्मा, स्याच्छुद्ध आत्मा तु तदा निरञ्जनः५०६ इतीयता सिद्धमिदं विदन्तो ! यदात्मबोधान्न परोऽस्ति सिद्धये / हेतुस्ततोऽत्रैव यतध्वमध्वनि, येनाऽऽत्मनः स्थानमहो महोदये 507 मुनीश ! साधूदित एष मुक्ते-र्गोि जिनेन्द्रागमयुक्तिसिद्धः / उत्सर्गनोत्सर्गहठाभिमुक्तः, श्रेय:श्रिये केवलराजयोगात् // 508 // परं हि यः सर्वमतानुयायी, मार्गोऽस्ति मुक्तेर्दुतमात्मदृष्टयै / ' अध्यात्मविद्याधिगमैकहेतुः, स मे निवेद्यः सरलः श्रमं विना।। 509 // अहो ! त्वदीया खलु सूक्ष्मदृष्टि-यन्मक्षु मुक्त्यर्थमयं विचारः / चित्ते समुत्पन्न इयानिदानी, मन्ये तदा तेऽत्र मनोऽस्ति मुक्त्यै।। 510 // 12