________________ ये वैष्णवा: केचन विष्णुवादिनो, विष्णोः सकाशान्निगदन्ति मुक्तिम् / ये ब्रह्मनिष्ठाः किल ब्रह्मणस्तां, शैवाः शिवाच्छक्तिकृतां तु शाक्ताः / तेषां न चात्मावगमी निदानं, मुक्तस्तदा नास्त्यथ निर्णयोऽयम् / यदात्मबोधाजनितैव मुक्ति-स्ततः किमेवं क्रियते विनिश्चयः।। 488 // सत्यं यदेते किल लोकरूढि-रूढास्तु विष्णवादिकभिन्नवीक्षिणः / परन्तु तत्त्वार्थत एष आत्मै-वार्थोऽभिवाच्यो ननु विष्णुमुख्यैः।। 489 / / कथं हि वेवेष्ट्यथ विष्णुरात्मा, व्याप्तेरथ ब्रह्म तथैष आत्मा। शिवोऽपि चात्मा शिवहेतुतः स्या-च्छक्तिस्तथाऽऽत्मश्रितवीर्यमेतत् इत्थं हि सर्वैरपि विष्णुमुख्यैः, शब्दैरसावात्मक एव बोध्यः / ततस्त्वतो मुक्तिरियं न कस्मात्, प्राप्येति तत्त्वं हृदि तैरपीक्ष्यम् 491 चेन्नेति विष्णुप्रमुखेभ्य एभ्यः, मुक्तिस्तदा वैष्णवमुख्यलोकाः / सन्तो गृहस्था इह विष्णुमुख्यान्, एवाऽर्चयन्तः परितो जपन्तु॥ 492 // परं तपः संयमयुक्तता क्षमा, निःसङ्गता रागरुषापनोदौ / पञ्चेन्द्रियाणां विषयाद्विरागो, ध्यानात्मबोधादि विधीयते कथं ?493 एषैव सेवा ननु विष्णुब्रह्मा-दीनां तदेयं कुत आश्रिताऽस्ति ? / भोस्तेभ्य एवेति तदा न तेषाम्, वागस्ति हस्तोऽपि यतोऽन्यबोधः तद्ध्यायियोगिभ्य इयं प्रवृत्ति-स्तत्तैः कुतोऽसौ निगदोपलब्धा ? / अध्यात्मयोगादिति चेत्तदानीं, तस्य प्रणेताऽभवदत्र को भोः ?495 निरञ्जनैनिष्क्रियकैर्न चाऽयं, वक्तुं हि योग्यः खलु विष्णुमुख्यैः / सोऽध्यात्मयोगः कुत आविरासीत्, चेदादियोगिभ्य इति प्रवादः 496 तैरप्यसावात्मभवावबोधा-दध्यात्मयोगोऽवगतो न चाऽन्यतः / अनिन्द्रियानिष्क्रियकान्निरञ्जना-नित्यैकरूपान्न तु विष्णुमुख्यात्४९७ स्वादात्मनो योऽवगमो बभूव, भावात्समाख्याद् गतरागरोषात् / अपूर्वलाभानिखिलार्थदृष्टे-रध्यात्मयोगः स्वत एव सिद्धः॥ 498 // 211