________________ मनुष्यसम्बन्धिभवस्य तुच्छ-कालीनभावादिति तुच्छमेभ्यः / प्राप्यं फलं तेन मनुष्यजन्म-न्यैवाऽत्र नैभ्योऽस्ति फलं परत्र / / 464 // इदं सुहृत् ! पुण्यभव फलं तु, महत्ततः स्याद् बहुकालभुक्त्यै। प्रभूतकालस्तु विना भवान्तरं, देवादिसम्बन्धि न वर्तते यतः // 465 // तत्पुण्यलभ्यं फलमेतदस्ति, प्रायोऽन्यजन्मान्तरयातजन्तोः / यद्यत्र जन्मन्युपयाति पुण्य-फलं तदा मङ्क्ष विनाशमेव॥ 466 // यतो मनुष्यापुरतीव तुच्छं, मानुष्यकं देहमिदं शरारु / तद् भुज्यमानं मरणान्तरागमात्, सन्त्रुट्यतीदं पृथुपुण्यजं फलम्४६७ सुखान्तरा दुःखभवो महीयो-दुःखाय यत्स्यादतिभीतिदा मृतिः / सा पुण्यजेऽस्मिन्सति नैव युक्ता, तदन्यजन्मे फलमेतदेति भो:४६८ अनेकधोत्पन्नमनेकशो यथो-पभुज्यमानं बहुकालमात्रम् / / न क्षीयते पुण्यफलं तदेतत्, प्रायोऽन्यजन्मन्युदयं समेति॥ 469 // तथा च यत् किञ्चिदुदग्रपुण्यं, साक्षादिहैवाऽर्पयति फलानि / यथाहि दिव्ये परिशुद्ध्यति 'क्षणाद्, यः कश्चिदत्राऽस्ति जनेषु सूनृती . शुद्धाय सिद्धाय च साधवे तथा-ऽण्वपि प्रदत्तं सकलार्थसिद्ध्यै / - स्यादैहिकामुष्मिकसर्वसौख्य-निबन्धनं बन्धनहृद् भवस्य॥ 471 // जनेऽपि कस्मैचिदनुत्तराय, क्षत्रादये स्तोकमपि प्रदत्तम् / वारे क्वचित्केनचिदेकवेलं, तस्येष्टसिद्ध्यैः भवतीह नूनम् // 472 // यावत्त्वयं जीवति तावदस्य, स राजपुत्रः सकलार्थकारी / घनं हि किं दुष्टविपक्षजाता-न्मृत्यन्तकष्टादपि पात्यशङ्कम्।। 473 // एवं हि कुत्राऽक्सरे किलैक-वारं महत्पुण्यमुपार्जितं यैः / तेषां तदत्राऽपि परत्र लोके, सत्सौख्यसन्तानविधानहेतुः // 474 // पुनस्त्वतीवोग्रतमं यदत्र, पुण्यं च पापं समुपार्जि पुंसा / अनेकपुंसामपि भुक्तये त-च्छालेरिव स्त्रैणयुजश्च चोरवत्॥ 475 // 209