________________ कश्चिद्रवेः सम्मुखमात्मना रजो-ऽथवा सिताबें क्षिपति क्षमास्थः / तत्सर्वमस्यैव समेति सम्मुखं, न याति सूर्यं च तथोच्चखं प्रति 454 यद्वा पुनः कश्चन सार्वभौम, संस्तौति तस्यैव फलाय स स्यात् / निन्देदथेशं यदि कश्चिदङ्गी, स्यात्सैव दुःखी जनतासमक्षम्।। 455 // स्तुतेऽधिकं स्यान्नहि सार्वभौमे, विनिन्दितेऽस्मिंस्तु न किञ्चिदूनम्। . नैवं प्रभौ पूजननिन्दनाध्या-माधिक्यहानी स्त इमे तु कर्तुः॥ 456 // यद्वा पुनः कश्चिदपथ्यपथ्या-हारीह दुःखं च सुखं च भुङ्क्ते / न स्तस्तु ते आहृतवस्तुनो यद्, एवं च सिद्धार्चनमात्मगामि।। 457 // एकोनविंशोऽधिकारः साधो ! वरं प्रोक्तमिदं परं यथा, चिन्तामणिमुख्यमिहार्चकानाम् / / सद्यः फलत्येव तथाऽत्र पार-मेशी फलेनो प्रतिमाऽचिंताऽसौ॥ 458 // सत्यं त्वदुक्तं परमत्र साधो !, संस्थाप्य चेतः स्थिरमित्यवेहि। यद्वस्तुनो योऽस्ति फलस्य काल-स्तत्रैव तद्वस्तु फलत्यशङ्कम् यथाहि गर्भो नवभिस्तु मासैः, पूर्णैर्लभेत् सूतिमिहैव नार्वाक् / तथा पुनः काञ्चनमन्त्रविद्याः, लक्षण कोट्याथ फलन्ति जापैः।। 459 // वनस्पतिर्वा समये स्वकीये, सर्वः फलत्येष न चाऽऽत्मशैघ्यात् / सेवाऽपि राजत्रिदशेश्वरादि-सम्बन्धिनी वा फलतीह काल।। 460 // संसाध्यमानोऽत्र रसोऽपि काले, सिद्धः फलायाऽस्ति न साध्यमानः / तथाऽन्यदेशव्यवहारकर्म, तत्कालपूर्ती फलति प्रकामम् // 461 // तथैव पूजादिकमत्र पुण्यं, काले स्व एवाऽस्ति भवान्तराख्ये। फलप्रदायीति ततो न दक्षै-रौत्सुक्यमेष्यं फलदे पदार्थे // 462 // पुनर्बुधाऽवस्य हृदि स्वकीये, पूर्वे प्रणीता य इमे पदार्थाः / ते चैहिका ऐहिकदायिनस्तत्, फलन्त्यथाऽत्रैव यतोऽग्रतो न॥ 463 // 208