________________ प्रायेण सावधरता गृहस्थाः, सदैहिकार्थाधिकृतौ प्रसक्ताः / कुटुम्बपोषादृतभूरिसङ्ख्यो-च्चनीचवार्ताः परतन्त्रखिन्नाः // 384 // तेऽमी स्वचेतःप्रतिभातपुण्य-कार्योद्यता आत्मरुचिप्रवृत्ताः। . यदेव ते स्वीयमनोऽभितुष्टयै, कुर्वन्ति पुण्यं किल कुर्वतां तत्।। 385 एते गृहस्था हृदये विदध्यु-रितीव सङ्कल्प्य च द्रव्यधर्मम् / द्रव्येण कर्माणि समाचरय्य, यथा मनस्तुष्टिमिदं निधत्ते // 386 / / तथैव धर्माण्यपि कानिचिच्चेद्, द्रव्येण कृत्वा स्वमनः प्रसन्नम् / कुर्मोऽत्र येनैव गृहस्थसत्को, व्यापार एघ्र द्रविणेन सिध्येत्।। 387 // एषां यतो द्रव्यवतां स्वधर्म, द्रव्येण सार्धं भवतीह चेतः। ... युक्तं ह्यदो यस्य बलं यदीयं, बलेन तेनैव मतं निजं क्रियात्॥ 388 // तद्रव्यधर्मं गृहिणां प्रकुर्वतां, संसारकार्यान्मनसोऽस्तु संवृत्तिः / यथा तथैते दधतां मनः स्वकं, सालम्बने पुण्यविधावपेक्षणम् 389 तद्यावतामी निजकेन्द्रियाणि, संवृत्य संसारभवक्रियातः / तदेव पूजादिकमाश्रयन्तां, मनः स्थिरं येन मनागपि स्यात्।। 390 // यावत्त्वनाकारपदार्थचिन्ता-कृतौ मनो न क्षममस्ति तद्वत् / सुसाध्वसाधुप्रतिपत्तियोग्यो, ज्ञानोदयो यावदहो भवेन्नो // 391 // तावत्स्वकीयव्यवहाररक्षा, कार्या कुलीनेन सनिश्चयेन / सनिश्चयः सव्यवहार एवं, निन्द्यो गृहस्थो न परैर्यतो भवेत्।। 392 // स्थिरं यदा चित्तमनाकृतावपि, तदा तु सिद्धस्मरणं विधेयम् / तत्सेधने साधुगृहस्थमुख्यै-रात्मावबोधे परियन एष्यः // 393 // पौर्वो विधिर्योऽखिलद्रव्यभाव-भिन्नां स हि द्वारधरोपलब्ध्यै / निर्वाणधाम्नो वरयानवत्स्या-त्तस्य प्रवेशेऽयमिहाऽऽत्मबोधः।। 394 / / तदङ्गने पादविहारवद्यः, शिवालयावस्थितिकृन्महात्मनाम् / तेनात्मबोधः परमोऽस्ति धर्मो, यत्सेधनान्निर्वृतिरेव निश्चिता॥ 395 // 202