________________ मुक्ताशनास्तेऽत इमे क्वचित्क्वचि-दाहारवर्जाः पुनरेव ते तु / विद्वेषमुक्ता इति सर्वसत्त्व-मैत्रीवहा एत इतीव रुच्याः // 372 // ते वीतरागा इति बन्धुबन्ध-च्युता इमे ते तु निरञ्जनाख्याः / इमे ततः प्रीतिविलेपनाद्यैः, शून्याश्च ते निष्क्रियकास्ततोऽमी।। 373 / / आरम्भसँरम्भविलम्भरिक्ता, गतस्पृहास्तेऽत इमे निराशाः / अस्पर्धकास्ते तदमी परैस्तु, वादविवादै रहितास्तथा च // 374 / निर्बन्धनास्तेऽथ सदैवक्तृप्त-स्वेच्छाविहारास्तदिमेऽथ तेऽपि / निःसन्धयोऽमी तु परस्परोत्थ-सख्याद्विरक्ता अथ केवलेक्षाः॥ 375 // ते सन्त्यमी सर्वजगत्स्वभावा-नित्यत्वदर्शाः पुनरेव ते तु / आनन्दपूर्णास्तदिमे सदान्तराः, सन्तोषपोषात्समभावभाविनः॥ 376 // इत्यादिका ये भगवद्गुणौघाः, शास्त्रेषु दृष्टा अथ तान्प्रकल्प्य / मुमुक्षवोऽमी अपि शक्तियोग्य-मादृत्य सिद्ध्यन्त्यपि ते क्रमेण 377 येऽन्ये गृहस्थाः खलु ते स्वकीय-शक्त्या तथा देशत एतकान् गुणान् / दुष्कर्मशान्त्यर्थमनुश्रयन्तः, क्रमेण चैतेऽपि सुखीभवन्ति॥ 378 // एवं तु ये केऽपि जनाः स्वशासने, सत्तां श्रिताः श्रीपरमेश्वरस्य / तत्प्रीतये तेऽपि गुणानिमान-नुयान्ति विज्ञाः परब्रह्मलिप्सवः॥ 379 / / साधो ! गृहस्था अपि देशतोऽमी, श्रयन्त्वमूनेव गुणांश्चिराय / परन्तु यत्कर्मणि जीवहिंसां, श्रयन्ति चेत्तन्न परं तदेषाम् // 380 // सत्यं गृहस्थाः खलु ते भवन्ति, प्रायो हि ते स्थूलधियोऽतिचिन्ताः / आरंम्भवन्तश्च परिग्रहादराः, सूक्ष्मेक्षिकालीकनकुण्ठबुद्धयः।। 381 // एते विनालम्बनमत्र तत्त्व-त्रये विमुह्यन्ति ततः शुभार्थम् / / सांकारपूजां धृतसाधुवेष-सेवां च दानादि सृजन्तु नित्यम्॥ 382 // . उच्चैः कुलाचारयशोऽवनार्थम्, श्रितो गृहस्थैः सकलोऽपि धर्मः / तद् द्रव्यतो भावत आत्मसम्पदे, द्विधापि धर्म गृहिणः श्रयन्त्वमी३८३ 201