________________ षोडशोऽधिकारः। अथाऽऽस्तिकं नास्तिक आह शस्तधी-रस्त्वस्त्विदं स्वर्गपदादि निश्चितम्। परं किलैतस्य यदस्ति साधनं, तद् ब्रूहि मे साम्प्रतमादरेण // 361 / / अहो ! त्वया साधु वचः समीरितं, धर्मश्रुतौ ते यदभूदिदं मनः / एकाग्रचेतः शृणु तर्हि मद्वचो, यथा तवाऽप्यस्तु सुधीः सुध।। 362 // हिंसामृषादत्तग्रहाङ्गनागमाः; परिग्रहश्चेति समे समन्ततः / विवर्जनीया यदिमान् विवर्ण्य, सिद्धोऽभवच्छ्रीभगवान् प्रसिद्धः 363. ये सत्यशीलक्षमतोपकारिता-सन्तोषनिर्दूषणवीतरागताः / निःसङ्गता चाऽप्रतिबद्धचारिता-सज्जानितानिर्विकृतिप्रसन्नताः॥ 364 // सद्गोष्ठितानिश्चलताप्रकाशिता-अस्वामिसेवित्वमतीवसत्त्वता / निर्भीकताऽल्पाशनताविशिष्टता-संसारसम्बन्धजुगुप्सतादयः॥ 365 // अत्रेदृशा अल्पगुणा अभूवन, सिद्धिश्रितां ते तु भवन्त्यनन्ताः / क्षेत्रस्वभावादथ सिद्धभावा-द्यद् वा शिवात्केवलिवाक्प्रमाणात् 366 तत्सेवकेनाऽपि तदीयशील-विधायिना भाव्यमिति प्रतीतम् / तथा च सिद्धा यदमूर्तरूपा, गताशना नीरुषवीतरागाः // 367 // निरञ्जना निष्क्रियका गतस्पृहाः, अस्पर्धका बन्धनसन्धिवर्जिताः / सत्केवलज्ञाननिधानबन्धुरा, निरन्तरानन्दसुधारसाञ्चिताः // 368 // अतस्तदुत्पन्नगुणानुगामिभि-महानुभावैर्मुनिभिर्विधीयते / तेषां गुणानामनुयानमात्मा-नुरूपशक्त्या तदवाप्तिकाझ्या // 369 // यद्यप्यमीषां न गुणान्समस्तान्, पूर्णानिमे सेवितुमत्र शक्ताः / तथाप्यमी साधव आत्मयोग्य, श्रित्वा बलं सिद्धगुणान् श्रयन्ति 370 तथाहि सिद्धाः परिभान्त्यमूर्ता, अमी तथा देहममत्वमुक्ताः / अरूपिणस्ते तदिमे शरीर-संस्कारसत्कारनिकारकाराः , // 371 // 200