________________ पुंसो यथा कस्यचिदस्ति कन्धरा-पृष्ठस्थितो वंशकमध्यगो वा। भृङ्गोऽथवा लक्ष्म च कालकादि, स्वयं न जानाति स तन्निजैः खैः 350 यदा तु मात्रादिनिजातवृद्धै-स्तवाऽत्र भृङ्गादि निगद्यतेऽदः / तदाऽपि तेनाऽप्यनुमन्यते तत्, परन्तु खैः स्वैर्न कदाचिदीक्ष्यम् 351 विद्वन् ! यथास्येक्षकमानवास्ततो-ऽनेके परे सन्ति तथा स्वरीक्षकाः / घना न तस्य त्वनिरीक्षकः सको,-ऽक्येवैककस्तेन समं न चोत्तरम् युक्तं परं नास्तिकतो घना जनाः, सन्त्यास्तिका आप्तवचःप्रमाणकाः / तत्प्रेत्यदर्शा निवसन्ति भूरिशो, लक्ष्मेक्षवन्नास्तिकवत्तु लक्ष्मवान्३५३ सत्यं मुने ! तत्फलतोऽपि पृष्ठगं, लक्ष्मावसेयं हि भवेदवश्यम् / परन्तु न स्वर्गपरेतलोको, कयाऽपि बोध्यौ ननु चेष्टयाऽपि // 354 // मैवं वद कोविद ! शक्तिशम्भु-गणेशवीरादिकदेवसंहतिः / शेवाङ्गिमान्याऽथ तुरुष्कपूज्याः, फिरस्तपेगम्बरपीरमुख्याः // 355 // तदीयसेवोत्थिततादृशेन, फलेन वेद्या न हि सन्ति ते किम् ? / सन्तीति चेत्ते त्रिदशा न माः, प्रायो न दृश्याः कलिकालयोगतः 356 दूरस्थतद्योग्यनिवासभूमे-रगम्यतत्क्षेत्रपथा मनुष्याः।। परन्तु सिद्धास्त्विदमीयसत्ता, नो मादृशैरत्र गतैः प्रदा // 357 // त्वं चेतसि स्वे परिभावयैवं, लङ्काऽस्ति वा नो ननु वर्तते सा। त्वया मया सर्वजनैरपीय-माकर्ण्यते केन न. मन्यते सा ? // 358 // एवं तदा चेत्त्वमिह स्थितः सन्, लकां पुरी तां मम दर्शयाऽत्र / श्रुत्वेति सोऽभाषत नास्तिकाख्यः, इहस्थितैः कैर्ननु दय॑ते सा ?359 त्वमित्थमेवाऽऽत्मनि मानयात्र, स्थितैस्तु लङ्का न यथा निरीक्ष्यते। न स्वर्गमोक्षादिपदं तथैव, छद्मस्थपुम्भिः परिवीक्ष्यमत्रगैः // 360 // 13