________________ अतस्त्वकं विद्धि जनोऽखिलोऽन्यः, सर्वेन्द्रियोऽप्यत्र न वेत्ति तद्वत् / यथैव नैमित्तिकमुख्यलोक-स्तदक्षतः कोऽप्यपरोऽस्ति बोधः।। 339 // एवं परोक्षार्थमिमं समस्तं, ज्ञानी विजानाति न सर्वलोकः। प्रायस्त्विदं वेत्ति परोपदेशा-ज्जनः स्वतो नेन्द्रियकेषु सत्सु।। 340 // आचारशिक्षागमसाधनानि, रसायनं व्याकरणादिविद्याः / चरित्रवृत्ती परदेशवार्ता, स्वादिन्द्रियाद् वेत्ति न किन्तु चोऽन्यत:३४१ हेतोरतः सुष्ठ विधाय चित्तं, विचारयेदं स्वविकल्पमुक्तः। . ग्राह्यं यदेवाऽस्ति नृणां निजैः खै-स्तदेव गृह्णन्ति हि तानि खानि 342 ज्ञानं परोक्षं हि यदिन्द्रियाणां, तज्ज्ञायते मक्षु परोपदेशात् / शस्तं तथाऽशस्तमिदं समस्तं, विस्तारसंक्षेपत ईक्ष्यतेऽन्यतः॥ 343 // यथान्त्रशुक्र कफपित्तवात-नाडीभ्रमं गुल्मयकृन्मलाशयाः / गण्डोलतापाधिकतप्तिवालकाः, कपालरोगा गलरोगविद्रधी।। 344 // इत्यादिकं यत्तनुमध्यवस्तु, सामान्यमत्यैर्निजकेन्द्रियैः स्वयम् / न ज्ञायते किन्तु परोक्तिश्रुत्या, ज्ञेयं तदस्य प्रशमात्स्वसत्ता // 345 // इदं विदां सुन्दर ! स त्वमैदं-पयं विजानीहि मयोच्यमानम् / वस्त्वस्ति यत्प्राणभृदङ्गभाग-भूतं प्रदृश्यं न परन्त्वमूर्तम्।। 346 // अत:किलाकारवतोऽङ्गिनोऽङ्गजं, तदङ्गभूतं च यदस्ति वस्तु। दृश्यं तदेवाथ न सन्त्यनाकृते-र्जीवस्य येऽनाकृतयो गुणास्ते।। 347 // इतीयता सिद्धमिदं यदत्र खै-ह्यं तदेव प्रतिगृह्यते तैः / अन्यद्यदाप्तैरुदितं तदेव, सत्यं नृणां खानि तु सर्वदृशि नो // 348 // पञ्चदशोऽधिकारः पुनश्च यद्देहबहिःस्थवस्तु, दृश्यं तदेवाङ्गिभिरीक्ष्यतेऽक्षैः / ग्राह्यं तु यन्नास्ति न गृह्यते तत्, परोक्तिशक्त्या तदपीह मन्यते।। 349 // 198