________________ यथा सिताभ्रादिसुगन्धिवस्तुषु, श्रोत्राक्षिनासारसनासमुत्थम् / ज्ञानं यदप्यस्ति तथापि केषुचि-त्तेषु प्रमाणं रसनावबोधनम्॥ 327 / / स्वर्णादिके वस्तुनि कर्णनेत्र-ज्ञानं स्फुरत्येव तथापि तत्र / निर्घर्षणादिप्रभवोऽवबोध-स्तदर्थसत्याय न केवलाक्षम् // 328 // माणिक्यमुख्येषु पदार्थराशिषु, समाक्षविद्रत्नपरीक्षिकातः / तथापि तेषामधिकोनवक्रयो, निगद्यते रत्नपरीक्षकैः किम् ? // 329 // सर्वेषु सर्वाणि समानि खानि, तदा कथं भिन्नविभिन्नवक्रयः / परन्तु कश्चित्प्रतिभावशेषो, येनोच्यते तद्गतमूल्यनिश्चयः // 330 // तथाहि फेनादिकजोटकेषु, प्रायो विमुह्यन्ति समेन्द्रियाणि / प्रमाणमेतेषु तदुत्थमत्तता, तेनेन्द्रियज्ञानमृतं न सर्वम् // 331 / / तथौषधीमन्त्रगुडाविशेषै-र्लोकाञ्जनैर्गुप्ततनोर्नरस्य / मूर्तिस्तु नो दृक्पथमेति नृणां, तत्किं स नास्तीति न गृह्यते खैः 332 तदाश्रितार्थादिकृतेस्तु तस्य, सत्ता तथा शक्तिमहेशवीराः।। भूतं सती जागुलिका सपत्नी, सिद्धायिकादेरपि तद्वदेव।। 333 // एतस्य सिद्धौ हि परोक्षसिद्धिः, तत्सेधनात् स्वर्गपरेतसिद्धिः / न दृश्यते यन्ननु चेष्टयापि, कथं हि तद्वस्तु सदिष्यते भोः / / 334 // स्थाने परं सर्वमिदं हि केवली, ज्ञानेन जानाति यदेव वस्तु सत् / अतस्तदीयं वचनं प्रमाणं, यदुच्यते तेन परावबुध्यै // 335 / / त्वं पश्य लोकेऽपि जनैर्न चान्यै-र्यज्ज्ञायते तत्किल दृश्यतेऽलम् / नैमित्तिकैरेव यथोपरागो, ग्रहोदयो गर्भघनागमादि // 336 // तथा व्यतीतं सकलं ब्रवीति, पृष्टं तु चूडामणिशास्त्रवेदी। निदानवैद्योऽखिलरुग्निदानं, निवेदयत्याशु न चाऽन्यलोकः।। 337 // . परीक्षको वेत्त्यथ नाणकस्य, यथा परीक्षां न परो मनुष्यः / / पदं पदज्ञः शकुनं च तज्ज्ञो, यथा विजानाति परो न तद्वत्॥ 338 // 19.