________________ पृच्छाऽस्ति तैः सार्धमसौ मुनीनां, चेन्नास्तिकैरिन्द्रियगोचरः श्रितः / सद्वस्तु दृश्यं यदि तर्हि वस्तु किं, यन्नेन्द्रियाणां विषयः समेषाम् रामादिके वस्तुनि सर्वश्रोतसां, किं गोचरो नेति यदाह नास्तिकः / रात्रावतद्वस्तुनि शब्दरूप-समेऽपि तद्वस्तुभ्रमो न किं स्यात् ? 294 सत्यं हि रात्रौ सकलेन्द्रियाणि, प्रायेण मुह्यन्त्यवबोधहान्याः / तस्मादतवस्तुनि तद्ग्रहः स्यात्, तच्छ्रोतसां चिन्न सदैव सत्या।। 295. पुनर्यथा पश्य जनेन नीरुजा, शङ्खः सितोऽस्तीति निरीक्ष्य गृह्यते। पुनश्च तेनैव रुजादितेन, स गृह्यते किं न बहूत्थवर्णः // 296 // यथा पुनः स्वस्थमनाः स्वबन्धून्, जानाति नैवं मधुमत्त एषः / सन्त्येषु तान्येव किलेन्द्रियाणि, कथं विपर्यास इयानभिष्यात् ? 297 पुरातनं ज्ञानमथेन्द्रियाणां, सत्यं तथा चाऽऽधुनिकं प्रमाणम् / नेदं वरं किन्तु पुरातनं सत्, तान्येव खानीह तु को विशेषः ? // 298 // पूर्वं मनोऽभूदविकारि यस्मात्, तत्साम्प्रतं यद्विकृतं बभूव / अतो मिथो भेद इयान् स कस्य, भेदोऽस्त्ययं मानसिकस्तदत्र।। 299 दृश्यं मनो नास्ति न वर्णतो वा, कीदृग् निवेद्यं भवतीति भण्यताम् / न दृश्यते चेन्नहि वर्तते तत्, खान्येव तानीह कथं विकारः ? // 300 // अयं विकारस्तु बभूव साक्षाद, यं सर्व एते निगदन्ति तज्ज्ञाः / त्वं पश्य चेदृष्टपदार्थकेष्वपि, मोहो भवेदित्थमिहैव खानाम्।। 301 // तीन्द्रियज्ञानमिदं हि केन, सत्यं सता सर्वमितीव वाच्यम् / तदेव सत्यं यदिहोपकारिण उपादिशन् दिव्यदृशो गतस्पृहाः।। 302 // स्वस्थं मनस्त्वं बुध ! सन्निधाय, विचारमेतं कुरु तत्त्वदृष्ट्या / शब्दा इमे ज्ञानवतोपदिष्टा-स्तेऽमी यथार्था भवताऽपि वाच्याः 303 आनन्दशोकव्यवहारविद्या आज्ञाकलाज्ञानमनोविनोदाः। . न्यायानयौ चौर्यकजारकर्मणी, वर्णाश्च चत्वार इमे तथाश्रमाः॥ 304 // 14