________________ ईदृग्विधं कर्म कियद्विधं स्या-विधेति तत्किं शृणु भण्यमानम् / भुक्तं च भोग्यं परिभुज्यमानं, शुभाशुभं सर्वमिदं सदृक्षम् // 282 // किंवद्यथा वारिदबिन्दुवृन्दं, वसुन्धरायां पतितं प्रशुष्कम् / तद्भुक्तवत्तत्र च भोग्यवत्किं, यावत्पतिष्यत्परिशोष्यमस्ति।। 283 // निपत्यमानं परिशुष्यमाणं, यावद्यदेतत्परिभुज्यमानवत् / ग्राह्यो गृहीतः परिगृह्यमाणो, यथा गुडो वा किल कर्म तद्वत्।। 284 // संसारिजीवा व्रतिनोऽव्रता वा, तेषां तु कर्मत्रयमेतदस्ति। वसुन्धराया घनबिन्दुवृन्दवत्, भुक्तं च भोग्यं परिभुज्यमानकम्।। 285 // कैवल्यभाजस्तु यके महान्त-स्तेषां तु कर्माणि शिलाग्रवृष्टिवत् / अल्पस्थितीन्येव तथापि तद्दशा-त्रयं तु तत्राऽपि गवेषणीयम्॥ 286 // सर्वत्र कादिपरप्रणोदनां, विनैव द्रव्यादिचतुष्टयस्य / तादृक्स्वभावादिह कर्मणां त्रयी, भुक्तादिकाऽसौ भविमुक्तजीवगा सिद्धात्मनां सिद्धतया दशात्रयी, न कर्मणां तत्कृतपूर्वनाशतः / भुक्ताऽप्यवस्था भवदेषु केवलि-भवावसानं न तदत्र काऽपि सा२८८ मया विचारोऽयमवाचि कर्मणा-मजानता लोकगतैनिदर्शनैः / सामान्यलोकप्रतिबोधनाय, ज्ञेयः प्रवीणैस्तु पुराणयुक्तिभिः।। 289 // इत्थं विना प्रेरकमत्र कर्मणां, भुक्ताविहोदाहरणान्यनेकशः / विचारितान्येव विचारचञ्चुरै-स्तद्वाक्प्रमाणं किल पारमेश्वरी।। 290 // ___त्रयोदशोऽधिकारः मुनीश ! केचिद् भुवि नास्तिका ये, न पुण्यपापे नरकं न मोक्षम् / स्वर्ग न च प्रेत्यभवं वदन्ति, को नाम तर्कः खलु तैः श्रितोऽस्ति ? ते नास्तिका दृश्यपदार्थसक्ता, नोइन्द्रियादेयविचारमुक्ताः / प्रत्यक्षमेकं वृणुते प्रमाणं, पञ्चेन्द्रियाणां विषयोऽस्ति यत्र / / 292 // 13