________________ विषं तथा कृत्रिममीदृशं स्या-त्तत्कालनाशाय तथैकमासात् / द्विमासषण्मासकवर्षकाल-द्विवर्षवर्षत्रयतोऽपि नाशकृत् // 258 // इत्थं च कर्माण्यपि.भूरिभेद-भिन्नस्थितीनीह भवन्ति कर्तुः / निजे निजे काल उपागते तु, तादृक् फलं तानि वितन्वते स्वतः 259 सिद्धो रंसो वैष भवेदसिद्धः, सर्वो गृहीतोऽभ्यमितेन केनचित् / समागते तत्परिणामकाले, दुःखं सुखं वा भजते तदाशकः॥ 260 // तथात्मगा दुष्पिटिका च वालको, दुर्वातशीताङ्गकसन्निपाताः / स्वयं त्वमी कालबलं समेत्य, तद्वन्तमात्मानमतिव्यथन्ते // 261 // अमी तथैते ऋतवोऽपि सर्वे, स्वं स्वं च कालं समवाप्य सद्यः / मनुष्यलोकाङ्गभृतो नयन्ति, सुखं तथा दुःखमिमान् स्वभावत:२६२ एवं हि कर्माणि निजात्मगानि, स्वकं स्वकं कालमवाप्य सत्वरम् / विना परप्रेरणमेतमात्मकं, नयन्ति दु:खं सुखमप्यथो स्वयम्।। 263 // तथा पुनः शीतलिकादिवाला-मयोद्भवा तप्तिरधिश्रयेत्तनुम् / घण्मासमात्मानमिमं तथैव, श्यन्ति कर्माणि समेत्य यत्स्वयम्।। 264 // यक्ष्माक्षिबिन्दूद्धतपक्षघाता, अर्धाङ्गशीताङ्गमुखामया ये। सहस्रयस्तैः परिपाकमेषां, वदन्ति वैद्या विदितागमा विदा // 265 / / इत्थं हि केषामिह कर्मणां परी-पाकं स्वकालं समवाप्य यत्स्वयम् / विना परप्रेरणमत्र पण्डिताः, पठन्ति सैद्धान्तिकसिन्धुरा ये // 266 // तापो यथा पित्तभवो दशाहं, सश्लेष्मिको द्वादशरात्रमात्रम् / सवातिकस्तिष्ठति सप्तरात्रं, त्रैदोषिकः पञ्चदशाहमानम् // 267 // एवं ज्वराणां परिपाककालः, स्वकः स्वकोऽयं पृथगेष उक्तः / यथा तथैषां कृतकर्मणामपि पृथक् स्वकीयः स्थितिकाल एष्य:२६८ यथा यथा वा चरितं पुरात्मना, फलं ग्रहाणामिव भुज्यते तथा / - यावत्स्वसीमां सहजाद्दशान्त-दर्शादियुक्तं परिणोदकं विना॥ 269 // .. . .191