________________ सत्यं तु कर्माणि जडानि सन्ति, नाभोगकालं निजकं विदन्ति। आत्माऽपि दुःखानि न भोक्तुकाम-स्तथापि दुःखान्ययमाश्रयेत 246 द्रव्यादिसामण्यतथाऽनिवार्य-शक्त्यैव कर्माणि तु तादृशान्यपि / स्फुटनि भूत्वा स्वककर्तृकं बला-दात्मानमेनं ननु दुःखयन्ति 247 यथोष्णकालादिऋतौ समेते, कश्चिज्जनः शीतलवस्तुसेवी। मृष्टादिकाम्लादिकरम्भभोजी, स्यात्तस्य तद्योगसमुत्थवातः / / 248 // वर्षाऋतुं प्राप्य पुरु प्रकुप्यति, प्रायो वपुःस्थः स समीर उग्रः / लब्ध्वा च कालं शरदाख्यमेष, प्रायेण संशाम्यति पित्तभावात्।। 249 // एवं हि वातादिकवस्तुनस्तू-त्पत्तिस्थितिप्रान्तदशात्रयेऽपि / आत्माश्रितस्याऽस्य न कश्चिदन्यः, विनैव कालादिकमत्र हेतुः।। 250 कर्मग्रहः स्वेप्सितभुक्तिवत्स्यात्, द्वयोस्तु शान्तिस्थितिकार्यनेहा / समस्तदात्मार्जितकर्मणां हि, भुक्तिश्च शान्तिः किल कालद्रव्यैः 251 एवं तु कालो गदितोऽस्ति कर्मणो, वातादिवस्तुत्रितयस्य चाऽपि। परं यदा कश्चन शान्त्युपाय उग्रो भवेत्तद्यपि याति चान्तरात्।। 252 / / किञ्चित्कदाचित्स्वदनं यदात्मनः, वातादिकृत्तत्क्षणतोऽपि जायते / कर्माणि कानीह तथात्मनोऽस्यो-ग्राणि क्षणात्तत्फलदान्यनीरकम्२५३ यदा पुनः स्त्री पुरुषं भजन्ती, यदृच्छया स्वार्थपरा विनेरकम् / विपाककाले परिपूर्णतां गते, प्रसूयमाना सुखिताथ दुःखिता॥ 254 // एवं तु कर्माण्यपि दुष्टशिष्टा-न्यनीरकाण्येव निजात्मगानि। स्वं कालमाप्य प्रकटीभवन्ति यद्, दुःखं सुखं वाऽभिनयन्ति देहिनम् यद्वातुरः कोऽप्यगदान् किलाऽऽहरन्, जानाति नासावहितान् हितानथ / तदीयपाकस्य गते तु काले, सुखं तथा दुःखमयं लभेत // 256 // कर्माण्यपीत्थं पुनरेष आत्मा, गृह्णन् न जानाति शुभाशुभानि / यदा तु तेषां परिपाककाल-स्तदा सुखी दुःखयुतोऽथवा स्वयम्२५७ 190