________________ नैवं यदेतानि भवन्ति कर्म-नामानि शास्त्रे पठितानि तद्यथा। भाग्यं स्वभावो भगवानदृष्टं, कालो यमो दैवतदैवदिष्टम् // 234 // अहो ! विधानं परमेश्वरः क्रिया, पुराकृतं कर्म विधा विधिश्च / लोकः कृतान्तो नियतिश्च कर्ता, प्राक्कीर्णप्राचीनविधातृलेखाः।। 235 इत्यादि नामानि पुराकृतस्य, शास्त्रे प्रणीतानि तु कर्मतत्त्वगैः। तदात्मनो न स्वकर्मणो विना, सुखस्य दुःखस्य च कारको परः 236 स्थाने त्वजीवानि पुनर्जडानि, कर्माणि किं कर्तुमिह क्षमाणि ? / कश्चित्तदेषां परिणोदकोऽस्तु, यच्छक्तितोऽमूनि सहीभवन्ति।। 237 / / इदं तु सत्यं परमत्र कर्मणा-मेषां स्वभावोऽस्ति सदेडगेव / विनेरकं यान्यखिलात्मनः स्वयं, स्वरूपतुल्यं फलमानयन्ति।। 238 // यतोऽभिवर्तन्त इमेऽत्र जीवाः, अजीवसम्बन्धमधिश्रिताः सदा / जीवन्त्यजीवन्नथ जीवितार-स्त्रैकालिकः सङ्गम एभिरेषाम्॥ 239 // षड्द्रव्यमध्ये खलु द्रव्यपञ्चकं, निर्जीवमेवं समवायपञ्चकम् / एतैरजीवैरपि जीवसङ्कुलं, जगत्समस्तं ध्रियते निरन्तरम् / / 240 // जीवास्त्विमे स्वोर्जितकर्मपुद्गलैः सन्तः श्रिता दुःखसुखाश्रयीकृताः / द्रव्याणि षट् यत्समवायपञ्चक-मेतन्मयं ह्येव जगन्न चाऽपरम्।। 241 // ततः सचेतः प्रणिचेत चेतसा, जीवेभ्य एते सबला अजीवाः / यतो यथाऽजीवबलप्रणोदिता, जीवास्तथा स्युः सुखदुःखभाजः 242 स्वभाव एषोऽस्ति यतस्तु जीवाः, गृह्णन्ति कर्माणि शुभाशुभानि / स्वकालसीमानमवाप्य कर्मा-ण्यमूनि चैषां सुखदुःखदानि॥ 243 // चेदित्थमेवेति तदायमात्मा, गृह्णाति कर्माणि शुभाशुभानि। आत्माऽपि दुःखानि न भोक्तुकामः, यदेष दुष्कर्म पुरस्करोति।। 244 // तदीह कर्माणि कियन्तमुच्च-विलम्ब्य कालं निजकारमात्मकम् / सुखं तथा दुःखमिमं नयन्ति, कुतो विना प्रेरकमेतदेष्यम् // 245 / / 189