________________ कथं न भोग्यं पुनरेधमानं, तदेव तेनैव ततोऽप्यनन्तम् / एवं निगोदासुमतां न वैरं, सान्तं न दुष्कर्म च नाऽपि कालः॥ 212 // लोके यथा गुप्तिगृहाश्रिताना-मन्योन्यसंमर्दनिपीडितानाम् / प्रत्येकमाबद्धनिकामवैर-भाजां नराणां किल कर्मबन्धः // 213 // भावस्त्वमीषामलमीदृशः स्या-द्यदेषु कश्चिन्प्रियतेऽपयाति वा / तदाहमासीय सुखेन भक्ष्य-मायाति किञ्चिद् घनमंशतश्च // 214 // इत्यादिकं वैरमतुच्छमीहक्, प्रवर्धमानं प्रतिबन्दि यत्स्यात् / तस्मादमीषामतिदुष्कृतं स्या-देवं निगोदाङ्गभृतामपीक्ष्यम् // 215 // तथातिसङ्कीर्णकपञ्जरस्थिताः, विद्वेषभाजश्चटकादिपक्षिणः। जालादिगा वा तिमयो मिथोभव-द्विबाधनद्वेषचिताः सुदुःखिन: 216 तथा पुनस्तस्करके निहन्य-माने च सत्यामनले विशन्त्याम् / कौतूहलार्थं परिपश्यतां नृणां, द्वेषं विनोत्तिष्ठति कर्मसञ्चयः॥ 217 // बुधास्तमाहुः किल सामुदायिकं, भोगो यदीयो नियतोऽप्यनेकशः / एवं हि चेत्कौतुकतः कृतानां, स्वकर्मणामत्र सुदुर्विपाकः // 218 // अन्योऽन्यबाधोत्थविरोधजन्मना-मनन्तजीवैः कृतकर्मणां तदा। भोगोऽप्यनन्तेऽपगते हि काले, निगोदजीवैर्न हि जातु पूर्यते॥ 219 // पूज्याः ! निगोदासुमतां मनोऽस्ति नो, केनेदृशं तन्दुलमत्स्यवद् भृशम् / प्रजायते कर्म यतस्त्वनन्त-कालप्रमाणं परिपाक एवम् // 220 // सत्यं यदेतन्न मनोऽस्त्यमीषा, तथापि चान्योऽन्यविबाधनोत्थम् / दुष्कर्म तूत्पद्यत एव यद्व-द्विषं निहन्त्येव यथा तथाहृतम् // 221 // सञ्ज्ञाश्चतस्रोऽप्यथवैषु मिथ्या, योगः कषायोऽविरतिश्च सन्ति। इमानि सर्वाण्यपि कर्मबन्ध-बीजान्यनन्तैस्त्वधिको विरोधः।। 222 / / एवं निगोदासुमतां निदर्शनैः; किञ्चित्स्वरूपं गदितं यथामति / यतस्त्विदं नो किल कोऽपि वक्तुं, शक्तो विना केवलिनं कुलीना:२२३ 180