________________ यथाऽत्र गन्धादिकवस्तुसत्ता, ज्ञेया नसा नैव दृशाभिदृश्या। एवं निगोदात्मभृतोऽपि जैन-वाक्याद्विबोध्या मनसा न वीक्ष्याः 200 ते केवलज्ञानवता हि दृश्याः, यथा हि सर्वत्र रजोऽतिसूक्ष्मम् / उड्डीयमानं न च दृश्यतेऽक्ष्णा, न चापि राशीभवनेऽपि बोध्यम् 201 परं यदाछनशुषीनरश्मि-समुत्थवंशीत्रसरेणुरूपम् / प्रकाशयोगादभिवीक्ष्यते तत्, दृश्यास्तथा दिव्यदृशा निगोदाः।। 202 / / स्वामिन्निगोदाद्यसुमान् न्यदन् सन्, न गौरवं केन लभेद् गुणेन च / यथा हि सूतो विविधांश्च धातू-नश्नन् भजत्येष गरिष्ठतां नो। 203 // वस्त्रं यथा चम्पकपुष्पवासितं, यथा च कृष्णागुरुधूपधूपितम् / न मौलभारान्ननु याति गौरवं, दृष्टान्त एकः पुनरत्र शास्त्रगः // 204 // सिद्धो यथा तोलकमानपारदः, स्विनः स हेम्नः शततोलकेन / न वर्धतेऽसौ निजतोलकाद्भरा-देवं न जीवेऽपि भरःकृताहतौ।। 205 यथा पुनर्मारुतपूर्णमध्या, दृतिः स्वभारादधिकी भवेन्नो। तथैव जीवो विहिताशनोऽपि, स्वगौरवान्नाधिकगौरवश्रित् // 206 // साधो ! निगोदाङ्गभृतोऽतिदुःखिताः, स्युः कर्मणा केन निगद्यतामिदम् इमं विना केवलिनं न कश्चि-द्विज्ञोऽपि विज्ञातुमलं विचारम्।। 207 // तथापि च प्रत्ययहेतवेऽदः, निगद्यते किञ्चन कर्मजातम् / यद्यप्यमी अत्र निगोदजीवाः, स्थूलास्रवान्सेवितुमक्षमा हि॥ 208 // परन्त्वमी एकतनुं श्रिता य-त्तिष्ठन्त्यनन्ताः प्रतिजन्तुविद्धाः / पृथक्पृथग्देहगृहप्रमुक्ताः, परस्परद्धेषकरात्मसंस्थाः // 209 / / अत्यन्तसङ्कीर्णनिवासलाभा-दन्योन्यसम्बद्धनिकाच्यवैराः / प्रत्येकमप्येष्वभिवर्तमान-मनन्तजीवैस्तत उग्रवैरम् // 210 // एकस्य जन्तोर्यदपीह वैर-मेकेन जीवेन तदप्यजेयम् / एकस्य जन्तोर्यदनन्तजीवै-वैरं भवेच्चेत्तदनन्तकालैः // 211 // 181