________________ यथैव लोके लवणोदवारि, क्षारं सदा दुःसहकर्मयोगात् / अनन्तकालेऽपि भवेन्न पेयं, यन्नैव वर्णान्तरमाश्रयेत // 188 // अनन्ततोऽनन्ततरस्त्वनेहा, बभूव वाढेलवणोदनाम्नः / विनेदृशं कर्म न नाम वाच्यं, तत्कुत्र दुष्कर्म कृतं जलेन // 189 // यत्रापि गङ्गादिमहानदीभवं, जलं गतं तद्गतरूपि तद्रसम् / निगोदकेषु व्यवहारराशितो, जीवा गतास्तेऽपि भवन्ति तत्समाः।। 190 तद्वारि मेघस्य मुखं समाप्य, पेयं भवेच्चाथ सुखीभवन्ति। एवं निगोदादपि निर्गता ये, संलभ्य जीवा व्यवहारराशिम् // 191 // यद्वागमज्ञस्य नरस्य कस्यचित्, हृदन्तरोच्चाटनमन्त्रवर्णाः / तिष्ठन्ति तैः किं कृतमत्र दुष्कृतं, यदीदृशं नाम निगद्यते जनैः।। 192 // तत्स्था हि वर्णा यदि केऽपि शस्त-मन्त्रस्थितास्ते गदिताः प्रशस्ताः / सन्मन्त्रगा येऽपि च मन्त्रवर्णा-स्ते स्युस्तथोच्चाटनदोषदुष्टाः॥ 193 // क्षेत्रं निगोदस्य यथा तथेदं, दुर्मान्त्रिकस्याशुभवर्णभृद् हृद् / दुर्मन्त्रवर्णाभनिगोददेहिनः, सन्मन्त्रवर्णव्यवहारिजन्मिनः // 194 / / दृष्टान्तदाष्टन्तिकतेयमात्मना, संयोजनीया समभावभाविना / एवं च सूक्ष्मा गुरवश्च पण्डितै-ईश्यास्तु दृष्टान्तगणाः स्वबुद्धितः१९५ दक्षाः ! निगोदासुभृतः समस्तं, संव्याप्य लोकं सततं स्थिताश्चेत् / ते केन नायान्ति दृशः पथं यके, घनीभवन्तोऽपि न बाधयन्ति 196 सत्यं निगोदा अतिसूक्ष्मनाम-कर्मोदयात्सूक्ष्मतरा भवन्ति / एकां तनुं तेऽधिगता अनन्ता-स्तथाऽप्यदृश्या ननु चर्मदृग्भिः॥ 197 / ' यथोग्रगन्धामृतदेहिरामठा-दिकोत्थगन्धो बहुधा यथा मिथः / श्लिष्टोऽभितिष्ठेन तदन्यवस्तुनः, सङ्कीर्णता नापि नभोभुवस्तथा 198 एवं निगोदासुमतां परस्परा-श्लेषेऽस्ति तेषामतिबाधनं सदा / तथाऽपि चाऽन्यस्य न वस्तुनोऽस्ति, संकीर्णता नैव विहायसश्च 199 185