________________ कृत्वा नवानेव यदैव जन्तून्, संसारिभाव प्रतिलाभयेच्चेत् / मौलान् कथं मोचयितुं क्षमो न, येन स्वक्लृप्तानिति किं विडम्बयेत् ? कृतानपीत्थं यदि संहरेत् पुनः, कोऽयं विवेको जगदीशितुः सतः / बालोऽपि यो वस्तु निजं प्रक्लुप्तं, धर्तुं क्षमस्तावदयं दधाति।। 155 // लीलेति चेत्तर्हि जनोऽपि लीलां, कुर्वन निन्द्यो भवति प्रवीणैः / तपोयमध्यानमुखैः स लभ्य-श्वेत्तानि रुच्यै यदि सन्ति तस्मै॥ 156 // एतानि यस्मै रुचये भवन्ति, स नेदृशीं जातु करोति लीलाम् / लोकेऽपि जीवादिकघातनोत्था, लीला निषिद्धास्ति समैव तेन // 157 अन्यानिषेधन्पुनरात्मना सृजं-स्तदासकोऽतीव विनिन्दितः स्यात् / एवं त्वनालोचनकर्मकारं, वयं न कर्तारमिमं वदामः // 158 // यत्त्वद्वचोन्यासभरैः स कर्ता, पूंतः स्वयं स्वीयजनान्पुनानः / ज्योतिर्मयाद्योत्थगुणैर्विशिष्टः, सोऽपि 'स्वकांशान्स्वरसाद्विमोह।। 159 // संसारभावे विरचय्य सद्यो, जीवत्वमेवं बहुदुःखपात्रम् / नुदत्ययं चेन्नहि तर्हि कर्तु-रंशा इमे प्राणभृतोऽपरे यत् // 160 // कर्ता कथं सङ्कटपेटकोदरे, दौर्गत्यदौस्थ्यादिमये भवेऽस्मिन् / जानन्निजांशान्सहसैव नुद्यात्, स्वकस्वरूपाद्विनिपात्य रम्यात्।। 161 // एषा तु लीलाऽस्ति यदीश्वरस्य, संसार एवैष ततस्तदिष्टः / तदा तु संसारिजनैस्तदाप्त्यै, कष्टादि केनाथ विधेयमुग्रम् // 162 // पूर्वापरानाश्रितवाक्यमेतत्, प्रजल्पतां काऽपि न वाक्प्रतीतिः / ये सर्वसद्रूपगुणानदोषान्, कर्तुर्वरांशानिति पातयन्ति // 163 // किं तर्हि वाच्यं शृणु किञ्चिदस्ति, ज्योतिर्मयं चिन्मयमेकरूपम् / द्रष्ट्र प्रजानां सुखदुःखहेतुं, योगीश्वरध्येयतमस्वभावम् // 164 // दौर्गत्यदुःखे सुगति सुखं च, प्राप्नोति तादृक् कृतकर्मयोगात् / जीवो यदा त्वेष समानभावं, श्रयेत्तदा गच्छति ब्रह्मभूयम् // 165 // 182