________________ अंशास्तदीया यदि जन्तवोऽमी, स्वयं स्वपार्थं हि तदेव नेतृ / विनैव कष्टं यदि तस्य लब्ध्यै, नीरागता निःस्पृहता निकामम्॥ 131 / निढेषता निष्क्रियता च तद्व-ज्जितेन्द्रियत्वं च समानभावः। इत्यादि कार्य यदि तस्य प्रीति-रेष्वेव सिद्धं तदिहाक्रियत्वम्॥ 132 चेद् वक्ष्यसि ब्रह्मगतः स्वभावो-ऽयमीदृशः सक्रियनिष्क्रियादिः / कर्तुस्त्वनेकैश्च तदा स्वभावै-रनित्यतापीह भवेत्कदाचित् // 133 // द्वेषोऽपि रागोऽपि दृशापि वीक्षा, नित्यं तदेवास्ति यदेकरूपम् / आकाशवद् व्याप्तिरियं हि यत्र, वाक्येन पञ्चावयवेन क्लृप्ता॥ 134 // कर्तुः स्फुट सक्रियता मनःस्था, सृष्टौ युगान्ते च तदन्यभावे। . स्यानिष्क्रियत्वं च तथैव राग-द्वेषौ जनानां सुखदुःखदृष्ट्या।। 135 // याक्रिया तादृशसौख्यदुःखे, चेदेवमूहो भवतामपि स्यात् / कर्तुर्बलं किं किल तर्हि सिद्धे, स्वपापपुण्ये सुखदुःखहेतू॥ 136 // हे ब्रह्मवादिन् ! यदि जन्तवोऽमी, ब्रह्मांशकास्तर्हि समे समाः स्युः। तदंशसाम्याद् बहुभेदभिन्ना-श्चेत्तहि कश्चिन्ननु तत्करोऽन्यः // 137 // चेद् ब्रह्मभिन्ना भुवि जन्तवोऽमी, सुखस्य दुःखस्य च कर्तृ ब्रह्म / हेतोर्यतो दुःखसुखे विधत्ते, ब्रह्मा स एवाऽस्तु तयोविधाता।। 138 // निरञ्जनं नित्यममूर्तमक्रियं, सङ्गीर्य ब्रह्माऽथ पुनश्च कारकम् / संहारकं रागरुडादिपात्रकं, परस्परध्वंसि वचोऽस्त्यदस्ततः // 139 // अतो विभिन्नं जगदेतदेतद्-ब्रह्मापि भिन्नं मुनिभिर्व्यचारि। अतस्तु संसारगता मुनीन्द्राः, कुर्वन्ति मुक्त्यै परब्रह्मचिन्ताम्॥ 140 // ये केऽपि मायामिह विष्णुमाश्रितां, जगद्विधौ हेतुमुदीरयन्त्यथ / प्रष्टव्यमेषामिति किं हि मायां, विष्णुः श्रितो विष्णुमथापि माया।। 141 माया जडा संश्रयितुं स्वयं नो, शक्ता तु विष्णुः परब्रह्मतुल्यः / जानन्स्वयं नाश्रयते हि मायां, यत्पारतन्त्र्यादजडो जडं श्रयेत्॥ 141 // 180