________________ अनेन किं पल्लवितेन येन, यद् दृश्यते तद् विपरीतमेव / कार्ये पुनः कारणजा गुणाः स्यु-विद्वांस एवं निगदन्ति तज्ज्ञाः॥ 119 यदत्र दृश्यं किल वस्त्वनित्यं, तद् ब्रह्मणो जातमिदं हि सृष्टौ / तद्योगिनः केन विहाय शीघ्रं, जुगुप्स्यमेतद् वृणते विरागम्॥ 120 // यद् द्वेषरागादिविरूपमुज्झ्यं, जगत्स्वरूपं वरयोगवद्भिः / तदेव सर्वं खलु ब्रह्मणैव, स्वस्मिन्कथं धार्यमहो युगान्ते ? // 121 // तदा विवेकोऽस्ति न ब्रह्मरूपे-ऽसौ वा शुकायेषु न योगवत्सु / कार्यं च धार्यं च यदादिपुंसो, निन्द्यं च हेयं च तदन्यपुंसाम्॥ 122 // तद्ब्रह्मजा सृष्टिरथापि कल्प-स्तज्जो वदद्भिस्त्विति ब्रह्म मूढम् / विज्ञाप्यते किं न च तैस्तथैषां, वान्ताहृतेर्बह्मणि किं न दोषः ? // 123 लोके तथैकादिकब्राह्मणादि-घातेऽत्र हत्या महती निगद्या / तनिघ्नतो ब्रह्मण एव सृष्टि, सा कीदृशी स्याददया दयालोः ? // 124 तज्जातसृष्टिं न हि तस्य हिंसा, निहिंसतश्चेद् भवतीति चोद्यते / सम्पाद्य सम्पाद्य सुतान्स्वकीया-पितुळूतस्तर्हि न कोऽपि दोषः 125 लीलेयमस्यास्ति यदीति चैद्गी-निहिंसतस्तस्य न चास्ति पापम् / एवं हि राज्ञो मृगयां गतस्य, जीवान्घ्नतः पातकमेव न स्यात्।। 126 // अथ स्वभावादथ कालतों वा, सृष्टिं नतो नास्ति विभोरघाप्तिः / स्वभावकालौ यदि चेद् बलिष्ठौ, ब्रह्माप्यशस्ते नुदतः क्षयेऽस्मिन् 127 एतौ तदेवात्र च हेतुभूतौ, किं ब्रह्मणा युक्त्यसंहेन कार्यम् / तद्ब्रह्मणः सृष्टिविधि तथैव, संहारकत्वं च वदन्ति ये तैः // 128 // न ब्रह्ममहिमा प्रकटीकृतः किं, निर्दूषणे दूषणमादधे यत् / . वन्ध्या ममाम्बेति समं निगद्यते, यनिष्क्रियं ब्रह्म निगद्य कत्रिति 129 ये केऽपि विज्ञानभृतो भवन्ति, सर्वे च ते ब्रह्म विचिन्तयन्ति। ब्रह्मांशकास्ते यदि कोऽस्ति भेदः, कस्मै विचारः क्रियते तदेभिः 130 109