________________ तथाभ्रकं हेम च रत्नकम्बलं, सिद्धं च सूतं न दहेद्भुताशनः / तदा तु या दाहकता विभावसौ, मौली व्रजेक्वाथ निगद्यतामिति।। 86 यश्चुम्बकग्रावणि लोहग्राही, स्वभाव आस्ते सहजः सकोऽस्ति / तस्मिन्मृते वेतरयोगयुक्ते,-ऽपैतीत्थमेतेष्वपि कर्मयोगः / // 87 // बीजं तथाङ्कुरभवं दधाति, मौलात्स्वभावादविकारि यावत् / तस्मिंस्तु दग्धे न किलाङ्कुरोद्भव-एवं तु सिद्धेषु न कर्मबन्ध:८८ वायोस्तथा चञ्चलतास्वभावो, यो वर्तमानः सहजः समस्ति / खलस्य मध्ये पवने निरुद्ध, कथं प्रयात्येष चलस्वभावः ? // 89 // आहारमुख्याः सहजाश्चतस्रः, संज्ञा इमाः प्रोझ्य शुकादयोऽमी / सिद्धाः प्रसिद्धाः, परब्रह्मरूपाः जातास्ततोऽपैति निजस्वभावः।। 90 // इत्यादिदृष्टान्तभरैः स्वभावो, मौलो यथा याति तथैव जन्तोः / कर्मग्रहोऽयं सहजः प्रयाति, सिद्धत्वमातस्य किमत्र चित्रम् ? // 91 // ॥सप्तमोऽधिकारः॥ प्रश्नस्तथैकः परिपृच्छ्यतेऽसकौ, सिद्धान्समाश्रित्य निजोपलब्धये। सर्वज्ञवाक्यात् किल मुक्तिमार्गको, वहन् सदास्ते करकस्य नालवत् 92 नो पूर्यते मुक्तिरसौ कदापि, संसार एषोऽपि च भव्यशून्यः। परस्परद्धेषिवचोविलासै-र्न सङ्गति मङ्गति वाक्यमेतत् // 93 // न हि व्यलीकं भगवद्वचोऽस्त्यदः, परं न चित्तेऽल्पधियामभिव्रजेत् / दृश्योऽस्ति दृष्टान्त इहैव लौकिको, यं शृण्वतां श्रोतृनृणां मनः स्थिरम् 94 सिद्धालयः स्याल्लवणोदसोदरः संसार एषोऽस्ति नदीहृदोदरः ! नदीप्रवाहाश्च यथा महोदधौ, पतन्ति निर्गत्य नदीहदान्तरात् // 95 // नदीहृदा नैव भवन्ति रिक्ता, न चाम्बुधिः कहिचिदस्ति पूर्णः / नदीप्रवाहोऽपि निरन्तरं य-द्वहत्यविच्छिनतयाऽतिशीघ्रम् // 96 // 100