________________ इत्युच्यते तस्य न तत्र किञ्चि-च्छोतःसुखं नापि क्रिया निरीक्ष्यते / तथापि सुप्तस्य नरस्य सौख्यं, वाच्यं यथा स्याद् भुवि तद्वदेव।। 75 // जाग्रस्तु सिद्धेषु सदैव सौख्यं, विनेन्द्रियद्वैतसमुत्थभोगम् / यद्वा हि योगी निजकात्मबोधा-मृतं पिबन्नस्मि सुखीति मन्ता।। 76 / / तथा च कोऽपीह मुनिर्यथोक्तः, सन्तुष्टिपुष्टो विजितेन्द्रियार्थः / अन्येन पुंसा परिपृच्छयते चेत्, त्वं कीदृशोऽसीति सुखी स जल्पेत् 77 तस्मिन् क्षणे तस्य न कोऽपि वस्तुनः स्पर्शः सतो नैव च भुक्तियुक्तिः। गन्धग्रहो नो न च हक्छुती तदा, न पाणिपादादिभवा क्रियापि च 78 तथापि सन्तोषवताहमस्मि, सुखीति भूयः प्रतिगद्यतेऽतः। तज्ज्ञानसौख्यं हि स एव वेत्ति, न ज्ञानहीनो गदितुं समर्थः // 79 // इत्थं हि सिद्धेषु विनेन्द्रियार्थ-स्तथा क्रियाभिः सुखमस्त्यनन्तम् / त एव तत्सौख्यभरं विदन्त्यपि, ज्ञानी न शक्तो वदितुं यतोऽसमम् 80 ॥षष्ठोऽधिकारः॥ जीवस्य कर्मग्रहणे स्वभाव-स्तदास मौलं सहजं विहाय / कर्मग्रहाख्यं कथमेष सिद्धो, भवेद्विचार: परिपठ्यतां भोः // 81 // कर्मात्मनोर्यद्यपि मौलसङ्ग-स्तथापि सामण्यतथोपलम्भात् / कर्मग्रहं प्रोज्झ्य शिवं समेतः, सिद्धो भवेदत्र निदर्शनं यत् // 82 // सूते यथा चञ्चलतास्वभावो, मौलस्तथाग्न्यस्थिरभावसंज्ञः / यंदा तु तादृक्परिकर्मणा कृत-स्तदा स्थिरो वह्निगतश्च तिष्ठेत् // 83 // यथा पुनर्दाहकतागुणोऽग्ना-वस्ति स्वभावो ननु मूलजातः / अस्यापि नाशोऽस्ति तथाप्रयोगात्, सन्तं सतीं नैव दहेत्कदापि।। 84 // बद्धो यथाप्येष च मन्त्रयोगात्, तथौषधीभिर्न दहेद्विशन्तम् / अश्नन्तमग्निं च चकोरकं तथा, वह्निर्दहेन्नो विगतस्वभावः // 85 // 105