________________ ॥पञ्चमोऽधिकारः॥ चेदाश्रयाश्रेयकभाव एवं, सिद्धोऽस्ति कर्मात्मकयोरवश्यम् / जीवास्तु सिद्धा अपि सन्त्यनन्त-चतुष्टयेद्धाः परमेष्ठिसंज्ञा(:)॥ 64 // पृच्छामि पूज्याः ! खलु तर्हि सिद्धा-त्मानो न कर्माणि समाददन्ते। . कथं तदेषामपि सौख्यसत्त्वा-लातां सुकर्माणि निषेधकः कः ? // 65 सत्यं यतस्तैजसकार्मणांख्य-शरीरयोगस्य विनाशभावः / सुकर्मणां तेन गृहीत्ययोगा-ज्ज्योतिश्चिदानन्दभरैश्च तृप्त्याः // 66 // सुखासुखप्रापणहेतुकाल-प्रयोक्त्रभावादथ निष्क्रियत्वात् / यद्वाप्यनन्तानि सुखानि तेषां, कर्माणि सान्तानि भवन्त्यमूनि // 67 // इतीव तत्सौख्यभरस्य कर्म, हेतुर्भवेनो यदतुल्यमानात् / इत्यादिकैर्हेतुभिरेव सिद्धा-त्मानो न कर्माणि हि लान्ति नित्याः।। 68 लोके यथा क्षुत्तृषया विमुक्ता-त्मानः सुतृप्तस्य न तृप्तिकालम् / जितेन्द्रियस्याप्यथ योगिनोऽपि, तुष्टस्य किञ्चिद् ग्रहणे न वाञ्छ।। 69 यद्वा न पात्रे परिमाति किञ्चित्, पूर्णे तथा सिद्धिगता हि सिद्धाः। सदा चिदानन्दसुधाप्रपूर्णा, गृह्णन्ति नो किञ्चिदपीह कर्म // 70 // तथा च सिद्धेषु सुखं यदस्ति, तद् वेद्यकर्मक्षयजं वदन्ति। तत्कर्म हेतुर्न हि सिद्धसौख्ये, यत्कर्म सान्तं सुखमेष्वनन्तम् // 71 // यद्विश्ववृत्तान्तसमुत्थनृत्त-प्रेक्षाप्रभूतं सुखमाश्रितानाम् / सिद्धात्मनां नित्यसुखं प्रवर्तते, यथा नृणामद्भुतनृत्यदर्शिनाम्।। 72 // सिद्धेषु पूज्या ! न किल क्रियेन्द्रियं, बुद्धीन्द्रियं नो न च किञ्चनाङ्गम् / अनन्तसौख्यं कथमाप्यते तै-र्यज्ज्ञानमेतेषु तदेव सौख्यम् // 73 // यथेह लोके किल कश्चिदङ्गी, ज्वरादिबाधाविधुरः कदाचित् / निद्रां प्रकुर्वन्निति तज्जनैस्तु, सुखं करोत्येष न बोधनीयः // 74 // 174