________________ ... ॥चतुर्थोऽधिकारः॥ कर्माणि मूर्तान्यसुमानमूर्तः, साकृत्यनाकृत्यभियुक्तिरेषा / न्याय्या कथं येन हि वस्तु भिन्नं, नाधारकाधेयकतां लभेत // 54 // आकर्ण्यतामुत्तरमस्य विज्ञाः !, कर्मस्वभावादथ जीवशक्तेः। गुणाश्रयो द्रव्यमिति प्रवादात्, संसारिजीवस्य गुणस्तु कर्म // 55 // यद्वा हि ये केचन विश्वमेतत्, सकर्तृकं प्राहुरहो ! समस्तम्। कल्पान्तकाले महति प्रवृत्ते, भाव्येव लीनं खलु विष्णुनाम्नि।। 56 // तदा यथा भूतगणा गुणाश्च, स्थास्यन्ति लीना ननु कर्तृनाम्नि। यद्वा नभोऽमूर्तमिदं गुरोर्लघो-मूर्तस्य चामूर्तिमतो निरन्तरम्॥ 57 // अर्थस्य सर्वस्य यथा विचक्षणा, आधारमाख्यन्नविनश्वरं महत् / कथं तथात्मैष न रूपवानपि, रूपीणि सर्वाणि वहत्यनारतम्॥ 58 // मिथ्यात्वदृष्टिभ्रमकर्ममत्सराः, कषायकन्दर्पकला गुणास्त्रयः / क्रियाः समग्रा विषया अनेकधा, किं किं न धत्तेऽत्र वपुर्गतोऽप्ययम् 59 मा वोच एतद्धि शरीरजा गुणा, अमी यतोऽस्मिन् गतपञ्चके घने / दृश्यन्त एते न हि केचनाश्रिता-स्ततो वपुर्गा न गुणास्तु जीवगाः।। 60 संदृश्यमानं पुनरीदृशं वपु-रदृश्य एवैष भवी दधाति चेत् / अरूपिरूपिद्वयसङ्गमो ह्यसौ, विचार्यमाणः कुरुते न कौतुकम्।। 61 // कर्पूरहिङ्ग्वादिकसुष्टदुष्ट-वस्तूत्थगन्धा गगनं श्रिता यथा / . तिष्ठन्ति यावस्थिति तद्वदेव भोः, कर्माणि जीवं परिवृत्य सन्ति 62 इत्यादिभिष्टनिदर्शनैस्तथा-गुणात्मकैः कर्मभिरेष आत्मकः / आश्रीयते निर्गुणकोऽपि निश्चित-मात्मा ततः कर्मचितो भवी भवेत् 63 1.3