________________ यथा गृहीतं न हि कर्म स स्मरेत्, न स्मर्यते प्रायश एव दृष्टः / स्वप्नस्तथा कर्मभरोऽपि चात्तः, कश्चित्स्मरेत् स्वप्नमिमं यथेक्षितम्।।३२॥ कर्म स्मरेत् ज्ञानविशेषतस्तथा, प्रधानपुंसेक्षित एव यद्वत् / स्वप्नो यथार्थः फलतीह नूनं, तथैव कर्मात्तमिदं कृतार्थम् // 33 // स्यादङ्गिनः संशय एव नात्र, व्यर्थीभवत्स्वप्नभरस्य जन्तोः। स्वप्नो यथा केवलिनस्तथास्ति, कर्मग्रहस्तत्क्षणनाशतो यत् // 34 // तथा निजात्मन्यपि पश्यतोऽत्र, सम्मील्य चेतः परिकल्प्य सुस्थम् / उत्पत्तिकालादवसानसीमा-मात्मा सृजेत्कार्मणतैजसाभ्याम् // 35 // गर्भस्थितः शुकरजोन्तरागतो यथोचिताहारविधानतो द्रुतम् / धातूंश्च सर्वानपि सर्वथा स्वय-मात्मा विधत्तेऽत्र विनाक्षवीर्यतः॥३६॥ गर्भात्कृते जन्मनि सर्वदैव, गृह्णन् किलाहारमथोपलब्धम् / ततस्ततस्तत्परिणामतः स्वयं, धात्वादि संपाद्य करोति पुष्टिम्॥ 37 // तथाहृति रोमभिरादधद्यकः, खलं परित्यज्य रसान् समाश्रयेत् / पुनः पुनः प्रोज्झति तन्मलं.बलात्, दधद्रजः सात्त्विकतामसान् गुणान् सज्ज्ञानविज्ञानकषायकामान्, हिताहिताचारविचारविद्याः / रोगान् समाधीश्च दधान एव-मास्ते कथं सक्रिय एष देहे // 39 // किं देहमध्येऽस्य करेन्द्रियादिकं, समस्ति येनैव करोति तादृशम् / विवेचनं प्राप्य च वस्तु तादृशं, प्राप्तावधिर्याति गृहेश्वरो यथा॥ 40 // यदीदृशोऽपौद्गलिकोऽप्यमूर्तो निराकृतिः सक्रिय एष जीवः / देहस्य मध्ये स्थित एव सर्व-मङ्गं परिव्याप्य करोति कृत्यम्॥ 41 // द्रव्याणि रूपीणि गुरूणि तद्वत्, सूक्ष्माणि वा लाति पुरान्तरासुमान् / कर्माणि तत् सूक्ष्मतमानि नो कथं, गृह्णात्ययं तैजसकार्मणाङ्गतः।। 42 // जीवः पुना रूपकरादिवर्जित, ईदृग्वपूरूपि कथं प्रवर्तयेत् / आहारपानादिक इन्द्रियार्थके, शुभाशुभारम्भककर्मणीह // 43 // 171.