________________ // द्वितीयोऽधिकारः॥ ताहक्स्वभावानियतेर्भविष्य-त्कालाच्छुभाशोभनभुक्तिहेतोः / जीवस्तु कर्माणि समाददीत, शुभाशुभानीह पुरःस्थितानि // 10 // कर्माणि योगीन्द्र ! जडानि सन्ति, तानि स्वयं नायितुं क्षमन्ते / आत्मा तु बुद्धः स्वयमेव जानन्, कर्माण्यशस्तानि कथं हि लाति // 11 // को नाम विद्वानशुभं हि वस्तु, गृह्णाति मत्वा किल यः स्वतन्त्रः / सत्यं विजानन्नपि भावि तादृक्-कालादिनोदादशुभं हि लाति।। 12 // तथाहि कश्चिद् धनवानपीह, खादेद् भविष्यनियतिप्रणुनः / खलं विबोधन्नपि मोदकादि-स्वादिष्टवस्तूनि यतः स्वतन्त्रः // 13 // अनन्यमार्गश्च तथैव कश्चित्, स्थानं निजेष्टं प्रयियासुराशु / शुभाशुभान् स्थानभरान् विजानन्, विलङ्घते स्वीयपदाप्तिनोदात्॥१४॥ तथा च चौरा: परदारगा अपि, व्यापारिणो दर्शनिनो द्विजास्तथा। विदन्त एते हि तथाविधायतेः, शुभाशुभं कर्म समाचरन्ति // 15 // भिक्षुस्तथा बन्दि ऋषिश्च भिक्षां, स्निग्धां च रूक्षां परिबुध्य भुङ्क्ते / शूरस्तथा युद्धगतोऽवगच्छन्, शत्रूनशत्रूश्च निहन्ति रोधे // 16 // रोगी यथा वा निजरोगशान्ति-मिच्छत्रपथ्यं ह्यपि सेवतेऽसौ / रोगाभिभूतत्ववशादपायं, जानन्स्त्वयं भाविनमात्मगामिनम् // 17 // एवं हि कर्माण्यसुमान् विलाति शुभाशुभानि प्रविदन्नवश्यम् / जीवस्य कर्मग्रहणे स्वभावो, ज्ञानं विनाऽप्यस्ति निदर्शनं यत्॥ 18 // यथैव लोके किल चुम्बकोऽप्ययं, संयोजकैोजितमञ्जसा भृशम्। . सारं तथाऽ सारमयोऽविचारितं, गृह्णाति येनाव्यवधानमात्मनः॥ 19 // कालात्मभावादिनियोजितान्यहो, स्वभावशक्तेश्च शुभाशुभानि यत् / कर्माणि सामीप्यसमाश्रितान्यय-मात्माऽपि गृह्णाति तथाऽविचारितम् 20 // 17