________________ महोपाध्यायश्रीसूरचन्द्रगणिविरचितः ॥जैनतत्त्वसारः॥ // प्रथमोऽधिकार // संशुद्धसिद्धान्तमधीशमिद्धं, श्रीवर्धमानं प्रणिपत्यं सत्यम् / कर्मात्मपृच्छोत्तरदानपूर्वं, किञ्चिद्विचारं स्वविदे समूहे // 1 // आत्मायमार्याः किल कीदृशोऽस्ति, नित्यो विभुश्चेतनवानरूपी। तथा च कर्माणि तु कीदृशानि, जडानि रूपीणि चयाचयीनि // 2 // जीवाः पृथिव्यादिमसूक्ष्मवृद्ध-निगोदभिन्न हि भवन्त्यनन्ताः / नानाविधाऽवाप्तसजातियोनि-भिन्नाः समस्ताः किल केवलीक्ष्याः॥३॥ कर्माणि तेभ्यो यदनन्तकानि, समग्रलोकाम्बरसंस्थितानि। घनं किमङ्येकतरप्रदेशे-ऽप्यनन्तसङ्ख्यानि शुभाशुभानि // 4 // अनन्तसङ्ख्याः किल कर्मवर्गणा, जीवप्रदेशे परिकल्प्य एकके। शुभाशुभाः केवलदृष्टिदृष्टा, मुक्ता अमूभ्यः खलु ते हि सिद्धाः।। 5 / / अतस्तु कर्माणि समग्रलोका-काशाश्रितानीह निरन्तराणि / तेनैव जीवा हि भवन्ति कर्मा-वृता वसूनीव मृदाविलानि // 6 // कथं विभो ! कर्मण आत्मनश्च, योगोऽयमेषोऽजनि भिन्नजात्योः / अनादिसंसिद्ध इहोच्यते यो, हेमाश्मनोवारणिचित्रभान्वोः // 7 // दुग्धाज्ययोर्वा युगपद्भवोऽस्त्ययं, यथा पुनः पावकसूर्यकान्तयोः / सुधा सुधाभृच्छिलयोः सहोत्थितः, कर्तुर्गुणानामथ कर्तृवादिनाम्॥८॥ कर्मात्मनोरेवमनादिसिद्धो, योगोऽस्त्ययं केवलिनः समूचुः। अस्यापि भेदो विदितस्तथाविधात्, सामग्र्ययोमात् कनकाश्मनोरिव 9 168