________________ // 4 // // 7 // // 8 // हेतुत्वाभिव्यञ्जकविभक्तिका लिङ्गवाग् यथा धूमात् / तद्व्याप्ते रुपदर्शनभूर्दृष्टान्तोऽथ सा द्वेधा .. हेतौ सति साध्यस्याऽवश्यम्भावित्वमन्वयव्याप्तिः / यद्वद् धूमो यत्राऽग्निस्तत्रेत्यत्र पाकगृहम् व्यतिरेकव्याप्तिः स्याद्धेतौ साध्येऽसति ध्रुवमभावः / यद्वद्यत्राग्नि! न तत्र धूमोऽपि कूपोऽत्र धूमश्चात्रेत्युपसंहरणं हेतोश्च धर्मिणि तुरीयः / साध्यस्य तन्निगमनं स्यात्तस्मादग्निरत्रेति हेत्वाभासाः पञ्चाऽसिद्धोऽनैकान्तिको विरुद्धश्च / कालात्ययाऽपदिष्टः प्रकरणसम इति मताश्चतुरैः सोऽसिद्धश्चिद्रूपैरनिश्चिता पक्षवर्तिता यस्य / / यद्वदनित्यः शब्दश्चक्षुर्दृश्यत्वतो घटवत् // 9 // स विरुद्धः साध्यविपर्ययेण सह यस्य जायते व्याप्तिः / यद्वच्छब्दो नित्यः कृतकत्वादन्तरिक्षमिव // 10 // सोऽनैकान्तिकनामा पक्ष-सपक्षवदितो विपक्षं यः / / व्योमवदव्ययशब्दं साधयत इव प्रमेयत्वम् // 11 // प्रत्यक्षादिनिराकृतसाध्यः कालात्ययापदिष्टाख्यः / . जलवच्छीतलमनलं यथा- पदार्थत्वतो वदतः // 12 // साध्यविपर्यययोः स्यात्तुल्यः प्रकरणसमो यथा नित्यः / शब्दः पक्षसपक्षाऽन्यतरत्वादन्तरिक्षमिवं 167