________________ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् / धर्मायतनमेतानि द्वादशाऽऽयतनानि तु // 24 // रागादीनां गणो यस्मात् समुदेति नृणां हृदि / आत्मा(त्मना)ऽऽत्मीयस्वभावाख्यः स स्यात् समुदयः पुनः॥ 25 // क्षणिकाः सर्वसंस्काराः इति या व(वा)सना स्थिरा / स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते // 26 // प्रत्यक्षमनुमानं च प्रमाणद्वितयं पुनः / चतुःप्रस्थानका बौद्धाः ख्याता वैभाषिकादयः // 27 // अर्थो ज्ञानान्वितो वैभाषिकेण बहुमन्यते / सौत्रान्तिकेण प्रत्यक्षग्राह्योऽर्थो न बहिर्मत: // 28 // आकारसहिता बुद्धिर्योगाचारस्य सम्मता / केवलं संविदं स्वस्थां मन्यन्ते मध्यमाः पुन . // 29 // रागादिज्ञानसन्तानवासनोच्छेदसम्भवा / चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता // 30 // कृत्तिः कमण्डलुमौण्ड्यं चीरं पूर्वाह्नभोजनम् / सङ्घो रक्ताम्बरत्वं च शिश्र(श्रि)ये बौद्धभिक्षुभिः // 31 // साङ्ख्ये देवः शिवः कैश्चिन्मत्तो(तो) नारायणः परैः / / उभयो [:] सर्वमप्यन्यत्तत्त्रप्रभृतिकं समम् // 32 // स(सा)ङ्ख्यानां स्युर्गुणाः सत्त्वं रजस्तम इति त्रयः / साम्यावस्था भवे(व)त्येषां त्रयाणां प्रकृति(ति:) पुनः // 33 // प्रकृतेश्च महांस्तावदहङ्कारस्ततोऽपि च / पञ्च बुद्धीन्द्रियाणि स्युश्चक्षुरादीनि पञ्च च // 34 // कर्मेन्द्रियाणि वाक्-पाणिचरणोपस्थ-पायवः / मनश्च पञ्च तन्मात्राः शब्द(ब्दो) रूपं रसस्तथा // 35 // 13